SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७८ षट्प्राभूतेएवं जिनप्रज्ञप्तं मोक्षस्य च प्राभृतं सुभक्त्या ।। यः पठति शृणोति भावयति स प्राप्नोति शाश्वतं सौख्यम् ॥ एवं जिणपण्णत्तं एवममुना प्रकारेण जिनप्रज्ञप्तं सर्वज्ञवीतरागभावितं । मोक्खस्स य पाहुडं सुभत्तीए माक्षस्य परमनिर्वाणपदस्य प्राभृतं सारमिदं शास्त्रं सुष्ठु-अतिशयेन भक्त्या परमधर्मानुरागेण । जो पढइ सुणइ भावइ य आसन्नभव्यो जीवः पठति जिह्वाग्रे करोति, यश्च भव्यजीवः शृणोत्याकर्णयति, यश्च मोक्षाभिलाषुको जीवो भावयति एतच्छास्त्रं यस्मै रोचते । सो पावइ सासयं सोक्खं स जीवः परममुनीश्वरः, प्राप्नोति लभते, शाश्वतमविनश्वरं, सौख्यं निजात्मोत्थं परमानन्दलक्षणं सौख्यं । नानाशास्त्रमहार्णवैकतरणे यद्बुद्धिरिद्धश्रिया पूर्णा पुण्यकविप्रमोदजननी लारैकनौकायते । यत्पादाम्बुजयुग्ममाप्य मुनिभि गैरिचापीयते स श्रीमान् श्रुतसागरो विजयतामेनस्तमोऽहपतिः॥१॥ श्रीमत्स्वामिलमन्तभद्रममलं श्रीकुन्दकुन्दाव्हयं यो धीमानकलङ्कभट्टमपि च श्रीमत्प्रमेन्दुप्रभु। विद्यानन्दमपीक्षितुं कृतमनाः श्रीपूज्यपादं गुरुं वक्षित श्रुतसागरं सविनयात् विद्यधीमन्नुतं ॥२॥ श्रीमल्लिभूषणगुरोर्वचनादलंध्या न्मुक्तिश्रिया सह समागमामिच्छतेयं । षट्प्राभृते सकलसंशयशत्रुहंत्री टीका कृताऽकृतधियां श्रुतसागरेण ॥३॥ १ पूर्वापुण्य ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy