SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २४ षट्प्राभृते चतुःषष्ठिचमरसहितः चतुस्त्रिंशद्भिरतिशयैः संयुक्तः । अनुचरबहुसत्वहितः कर्म्मक्षयकारणनिमित्ते ॥ चउसद्विचमरसहिओ चतुःषष्टिचामरसहितस्तीर्थकर परमदेवो भवति तं वन्दे इति विषमव्याख्या ज्ञातव्या । चउतीसहि अइसएहिं संजुत्तो चतुस्त्रिंशदतिशयैः संयुक्तस्तीर्थकरपरमदेवो भवति तं वन्दे | अणुचरबहुसत्तहिओ अनुचरबहुसत्त्वहितः स्वामिना सह ये पृष्ठतो गच्छन्ति तेऽनुचराः सेवकाः तथा बहुसत्त्वा अपरेऽपि जीवास्तेभ्यो हितः स्वर्गमोक्षदायक इत्यर्थः । कम्मक्खयकारणनिमित्ते कर्मणां क्षयकारणं शुक्लध्यानं तस्य निमित्ते प्राप्त्यर्थे तं वन्दे इति क्रियाकारकसम्बन्धः । अथ कानि तानि कर्मक्षयकारणानि शुक्लध्यानहेतव इति प्रश्ने गाथामिमां चकार श्री कुन्दकुन्दाचार्य:-- णाणेण दंसणेण य तवेण चरियेण संजमगुणेण । चउहिं पि समाजोगे मोक्खो जिणसासणे दिट्ठो ||३०|| ज्ञानेन दर्शनेन च तपसा चारित्रेण संयमगुणेन । चतुर्णामपि समायोगे मोक्षो जिनशासने दृष्टः ॥ .. णाणेण ज्ञानेन । दंसणेण य दर्शनेन च । तवेण तपसा । चरिएण चरितेन चारित्रेण । संजमगुणेण एतच्चतुष्टयं संयमगुण उच्यते । चउहिं पि समाजोगे चतुर्णामपि समायोगे सति एकत्र सामग्र्यां सत्यां | मोक्खो जिणसासणे दिहो मोक्षो जिनशासने दृष्टः कथितः । समस्तेन मोक्षो भवति न तु व्यस्तेन । उक्तं च वीरनन्दिशिष्येण पद्मनन्दिना वनशिखिनि मृतोऽन्धः संचरन् वाढमंह्नि द्वितयविकलमूर्तिर्वीक्षमाणोऽपि खंजः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy