SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ दर्शनप्राभृतं । अपि सनयनपादोऽश्रद्दधानश्च तस्माद् हगवगमचरित्रैः संयुतैरेव सिद्धिः ॥ १ ॥ गाणं णरस्स सारो सारो वि णरस्स होइ सम्मत्तं । सम्मत्ताओ चरणं चरणाओ होइ णिव्वाणं ॥ ३१ ॥ ज्ञानं नरस्य सारं सारमपि नरस्य भवति सम्यक्त्वम् । सम्यक्त्वतः चरणं चरणतो भवति निर्वाणम् ॥ 1 गाणं णरस्स सारो ज्ञानं नरस्य जीवस्य सारः । सारो वि णरस्स होइ सम्मत्तं सम्यग्ज्ञानादपि जीवस्य सम्यक्त्वं सारतरं भवति । कस्मात् ? समत्ताओ चरण सम्यक्त्वाच्चरणं चारित्रं भवति यस्मात्, सम्यक्त्वं विना चारित्रं प्रतिपालयन्नपि पुमानचारित्रो भवति । चरणाओ होइ णिव्वाणं चरणाच्चारित्रान्निर्वाणं सर्वकर्मक्षयलक्षणो मोक्षो भवति । तेन सर्वेभ्यो दर्शनमुत्कृष्टमिति ज्ञातव्यं । पाणम्मि दंसणम्मि य तवेण चरिएण सम्मसहिएण । चो पि समाजोगे सिद्धा जीवां ण संदेहो ॥ ३२ ॥ ज्ञाने दर्शने च तपसा चारित्रेण सम्यक्त्वसहितेन । चतुर्णामपि समायोगे सिद्धा जीवा न सन्देहः ॥ पाणम्मि ज्ञाने सति । दंसणम्मि य दर्शने सति । तवेण तपसा कृत्वा । चरिएण चरितेन चारित्रेण कृत्वा । सम्मसहिएण सम्यक्त्वसहितेन । ज्ञानं तपश्चारित्रं च व्यर्थं सम्यक्त्वं विना । तेन चतुर्णा समायोगे मेलापके सति सिद्धा जीवा ण संदेहो जीवाः सिद्धा मुक्ति गता अत्र सन्देहो नास्ति । तथा चोक्तं हतं ज्ञानं क्रियाशून्यं हता चाज्ञानिनः क्रिया । धावन्नप्यन्धको नष्टः पश्यन्नपि च पंगुकः ॥ १ ॥ १ चउपि ग. घ. । २ देवा घ. तीर्थकराः । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy