________________
दर्शनप्राभृतं ।
२३.
ण वि देहो दिज्जइ नापि देहो वन्द्यते । ण वि य कुलो नापि च कुलं पितृपक्षो वन्द्यते । ण वि य जाइसंजुत्तोन च जातिसंयुक्तो मातृपक्षशुद्धः पुमान् वन्द्यते । को वंदमि गुणहीणो कं वन्दे गुणहीनं अपि तु गुणहीनं न कमपि वन्दे । न ह सवणो णेव हु सावओ होइ गुणहीनः पुमान् न श्रवणो दिगम्बरो भवति नैव श्रावको भवति देशव्रती च न भवति । गुणवानेव मुनिन्दनीय इति भावः । वंदामि तवसमेण्णा सीलं च गुणं च बंभचेरं च । सिद्धिगमणं च तेर्सि सम्मत्तेण सुद्धभावेण ॥ २८॥
वन्दे तपःसमापन्नान् शीलं च गुणं च ब्रह्मचर्यं च । सिद्धिगमनं च तेषां सम्यक्त्वेन शुद्धभावेन ॥
वंदामि तवसमण्णा वन्देऽहं श्री कुन्दकुन्दाचार्य: । कानू, मुनीनित्युपस्कारः । कथंभूतान् मुनीन् तवसमण्णा तपः समापन्नान् । तथा तेसिं तेषां मुनीनां । सीलं च पूर्वोक्तमष्टादशसहस्रसंख्यं शीलं च वन्दे । गुणं च पूर्वोक्तचतुरशीतिलक्षसंख्यं गुणं चाहं वन्दे । तथा तेषां मुनीनां पूर्वोक्तं नवविधं ब्रह्मचर्यं च वन्दे । तथा तेषां मुनीनां सिद्धिगमणं च आत्मोपलब्धिलक्षणं सिद्धिगमनं मुक्तिप्राप्तिं वन्दे । केन कृत्वा वन्दे, सम्मत्तेण सम्यक्त्वेन श्रद्धया रुचिरूपेण सम्यग्दर्शनेन वन्दे । न केवलं सम्मत्तेण वन्दे किन्तु सुद्धभावेण निर्मलपरिणामेन अकुटिलतया निर्मायत्वेनेति तात्पर्य ।
चउसचिमरसहिओ चउतीसहि अइस एहिं संजुत्तो । अणुचरबहुत हिओ कम्मक्खयकारणनिमित्ते ॥ २९ ॥
१ तवसउण्णा. घ. । तवसमाणं. ग. । २ अणवर इति घः पाठः तस्यार्थो निरन्तरमिति कृतः । क. ख. ग. पुस्तके तु उक्त एव पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org