________________
षट्प्राभृते __ अमराण वंदियाणं अमराणां भवनवासिव्यन्तरज्योतिष्ककल्पवासिकल्पातीतदेवानां वन्दितानां तीर्थकरपरमदेवानां । रूवं दहण रूपं वेषं दृष्ट्वा विलोक्य । कथंभूतानां, सीलसहियाणं व्रतरक्षासहितानां । जे गारवं करंति य ये पुरुषा जैनाभासास्तथान्ये च गर्व कुर्वन्ति चकारात्सेवां न कुर्वन्ति । सम्मत्तविवज्जिया होंति सम्यक्त्वरत्नरहिता भवन्ति, मिथ्यादृष्टयो भवन्ति, सम्यक्त्वरत्नच्युता भवन्ति, महापातकिनो भवन्ति, दीर्घकालं संसारमध्ये पर्यटन्ति । उक्तं च
ये गुरुं नैव मन्यन्ते तदुपास्ति न कुर्वते ।
अन्धकारो भवेत्तेषामुदितेऽपि दिवाकरे ॥१॥ अस्संजदं ण वंदे वच्छविहीणो वि सो ण वंदिज्ज । दोण्णि वि होंति समाणा एगो वि ण संजदो होदि ॥२६॥ ___ असंयतं न वन्देत वस्त्रविहीनोऽपि स न वन्येत ।
द्वावपि भवतः समानौ एकोऽपि न संयतो भवति ॥ अस्संजदं ण वंदे असंयतं गृहस्थवेषधारिणं संयमं पालयन्तमपि न वन्देत । वच्छविहीणो वि सो ण वंदिज्ज वस्त्रविहीनोऽपि नग्नोपि स संयमरहितो न वन्द्येत न नमस्क्रियेत । दुण्णि वि होंति समाणा द्वितयेऽपि समाना संयमरहिता भवन्ति । एगो वि ण संजदो होदि ( एकोऽपि संयतो न भवति )। गृहस्थः संयम प्रतिपालयन्नप्यसंयमी ज्ञातव्यः इति भावः।
ण वि देहो वंदिज्जइ ण वि य कुलो ण वि य जाइसंजुत्तो। को वंदमि गुणहीणोण हु सवणो णेय सावओ होइ॥२७॥
नापि देहो वन्द्यते नापि च कुलं नापि च जातिसंयुक्तः । कं वन्दे गुणहीनं न हि श्रवणो नैव श्रावको भवति ॥
१ण सावओ होइ. ग. घ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org