________________
दर्शनप्राभृतं ।
के ? जे गुणवादी गुणधराणं ये मुनयः स्वयं सम्यग्दर्शनादीनामाराधका अपरेषां गुणधराणामाराधनाराधकानां । ये मुनयो गुणवादिनो गुणवर्णनशीला न मत्सरिणस्ते वन्दनीया नमस्करणीया इत्यर्थः । सहजुप्पण्णं रूवं दहुं जो मण्णए ण मच्छरिओ । सो संजमपडिवण्णो मिच्छाइट्ठी हवइ एसो ॥ २४ ॥ सहजोत्पन्नं रूपं दृष्ट्वा यो मन्यते न मत्सरी । स संयमप्रतिपन्नः मिथ्यादृष्टिर्भवति एषः ॥
सहजुप्पण्णं रूवं सहजोत्पन्नं स्वभावोत्पन्नं रूपं नग्नं रूपं । दहुं दृष्ट्वा विलोक्य । जो मण्णए ण मच्छरिओ यः पुमान् न मन्यते नग्नत्वेऽरुचि करोति नग्नत्वे किं प्रयोजनं पशवः किं नग्ना न भवन्तीति ब्रूते । मच्छरिओ परेषां शुभकर्मणि द्वेषी । सो संजम पडिवण्णो स पुमान् संयमप्रतिपन्नो दीक्षां प्राप्तोऽपि । मिच्छाइट्ठि हवइ एसो मिथ्यादृष्टिर्भवत्येषः । अपवादवेषं धरन्नपि मिध्यादृष्टिर्ज्ञातव्य इत्यर्थः । कोऽपवादवेषः ? कलौ किल 'लेच्छादयो नग्नं दृष्ट्ट्रोपद्रवं यतीनां कुर्वन्ति तेन मण्डपदुर्गे श्रीवसन्तकीर्तिना स्वामिना चर्यादिवेलायां तट्टीसादरादिकेन शरीरमाच्छाद्य चर्यादिकं कृत्वा पुनस्तन्मुञ्चन्तीत्युपदेशः कृत: संयमिनां इत्यपवादवेषः । तथा नृपादिवर्गोत्पन्नः परमवैराग्यवान् लिंगशुद्धिरहितः उत्पन्नमेहनपुटदोषः लज्जावान् वा शीताद्यसंहिष्णुर्वा तथा करोति सोऽप्यपवाद लिंग: प्रोच्यते । उत्सर्गवेषस्तु नग्न एवेति ज्ञातव्यं । सामान्योक्तो विधिरुत्सर्गः । विशेषोक्तो विधिरपवाद इति परिभाषणात् । अमराण वंदियाणं रूवं दहूण सीलसहियाणं । । जे गारवं करंति य सम्मत्तविवज्जिया होंति ||२५||
-
अमराणां वन्दितानां रूपं दृष्ट्वा शीलसहितानाम् । ये गर्वं कुर्वन्ति च सम्यक्त्वविवर्जिता भवन्ति ॥
Jain Education International
For Private & Personal Use Only
२१
www.jainelibrary.org