________________
२०
षट्प्राभृते
जं सकइ तं कीरह जं च ण सक्केई तं च सद्दहणं । केवलिजिणेहिं भणियं सद्दहमाणस्स सम्मत्तं ॥ २२ ॥
यत् शक्नोति तत् क्रियते यच्च न शक्नुयात् तस्य च श्रद्धानं । केवलिजिनैः भणितं श्रद्दधानस्य सम्यक्त्वम् ॥
जं सकइ तं कीरह यच्छक्नोति तत्क्रियते विधीयते । जं चण सक्केइ यच्च न शक्नुयात् यत्कर्तुं न शक्नोति । तं च सद्दहणं तस्य श्रद्धानं तस्य ज्ञानाचारादे रोचनं कर्त्तव्यं । केवलिजिणेहिं भणियं केवलज्ञानिभिर्जिनैर्भणितं प्रतिपादितं । केवलज्ञानं विना तीर्थकरपरमदेवा धर्मोपदेशनं न कुर्वन्ति । अन्यमुनीनामुपदेशस्त्वनुत्रादरूपो ज्ञातव्यः । अथवा केवलिभिः समवशरणमण्डित केवलज्ञानसंयुक्ततीर्थकरपरमदेवैभणितं जिनैरनगारकेवलिभिर्भणितं । किं भणितं ? सद्दहमाणस्स सम्मत्तं श्रदधानस्य पुरुषस्य रोचमानस्य जीवस्य सम्यक्त्वं सम्यग्दर्शनं भवति ।
दंसणणाणचरिते तव विणये णिच्चकालपसत्था | एदे दु वंदणीया जे गुणवादी गुणधराणं ॥ २३ ॥ दर्शनज्ञानचारित्रे तपोविनये नित्यकालप्रस्वस्थाः । एते तु वन्दनीया ये गुणवादी गुणधराणाम् ॥
दंसणणाणचरिते दर्शनज्ञानचारित्रे दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं समाहारो द्वन्द्वः तस्मिन् दर्शनज्ञानचारित्रे एतत्रितये । तथा तवविणए तपोविनये च चतुर्विधाराधनायामित्यर्थः । णिच्च कालपसत्था नित्यका प्रस्वस्था नित्यमेव प्रकर्षेण स्वस्था एकलोलीभावं प्राप्ताः । दे दु वंदनीया एते पुरुषा महामुनयो बन्दनीया नमस्कर्तव्याः । एते
१ तस्स होइ सद्दहणं. ग. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org