________________
दर्शनप्राभतं ।
ण्येकतो मिलितान्यपि निजनिजगुणान्न जहति । एवं तत्वास्तिकायपदार्थानामपि स्वरूपं ज्ञातव्यं ।
जीवादी सद्दहणं सम्मत्तं जिणवरेहि पण्णत्तं । ववहारा णिच्छयदो अप्पाणं हवइ सम्मत्तं ॥ २० ॥
जीवादीनां श्रद्दधानं सम्यक्त्वं जिनवरैः निर्दिष्टम् ।
व्यवहारात् निश्चयतः आत्मा भवति सम्यक्त्वम् ॥ जीवादीनां श्रद्धानं रुचिः सम्यक्त्वमिति जिनवरैः प्रणीतं तत्तु सम्यग्दर्शनं व्यवहाराज्ज्ञातव्यं । णिच्छयदो अप्पाणं हवइ सम्मत्तं निश्चयतो निश्चयनयादात्मैव भवति सम्यक्त्वं रुचिसामान्यत्वादित्यर्थः ।
एवं जिणपण्णतं दंसणरयणं धरेह भावेण । सारं गुणरयणत्तय सोवाणं पढम मोक्खस्स ॥२१॥ - एवं जिनप्रणीतं दर्शनरत्नं धरत भावेन ।
सारं गुणरत्नेषु सोपानं प्रथमं मोक्षस्य ॥ एवं पूर्वोक्तप्रकारेण । जिणपण्णत्तं जिनैः प्रणीतं जिनैः कथितं । दसणरयणं दर्शनरत्नं सम्यक्त्वमाणिक्यं । धरेह भावेण धरत यूयं भावेन वीतरागसर्वज्ञस्य भक्त्या । उक्तं च
एकापि समर्थयं जिनभक्तिर्दुर्गतिं निवारयितुं । पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ॥१॥ कथंभूतं दर्शनरत्नं, सारं उत्कृष्टं । केषु सारं, गुणरयणत्तय गुणेषु उत्तमक्षमादिषु तथा रत्नत्रये सम्यग्दर्शनज्ञानचारित्रेषु । उक्तं च
दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते।
दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते ॥१॥ पुनरपि कथंभूतं दर्शनरत्नं, सोवाणं सोपानं पादारोपणस्थानं । कतिसंख्योपेतं, पढम प्रथमं अद्वितीयं । कस्य, मोक्खस्स मोक्षस्य परमनिर्वाणस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org