________________
षट्प्राभृतेलिंगदर्शनं नास्ति । त्रीण्येव जिनशासने लिंगदर्शनानि प्रोक्तानि न न्यूनानि नाप्यधिकानीति शेषः ।
छद्दव्व णव पयत्था पंचत्थी सत्त तच्च णिदिहा । सदहइ ताण रूवं सो सद्दिडी मुणेयव्वो ॥ १९॥ षड् द्रव्याणि नव पदार्थाः पञ्चास्तिकायाः सप्त तत्वानि निर्दिष्टानि । श्रद्दधाति तेषां रूपं स सद्दृष्टिः ज्ञातव्यः ॥ छद्दव्व षड्व्याणि जीवपुद्गलधर्माधर्मकालाकाशाः षड् द्रव्याणि भवन्ति । वर्तमानकाले द्रवन्तीति द्रव्याणि भविष्यति काले द्रोष्यन्ति अतीतकालेऽदुद्रुवन्निति द्रव्याणि जीवपुद्गलधर्माधर्मकालाकाशनामानि । नव पयत्था नव पदार्थाः जीवाजीवपुण्यपापास्त्रवबन्धसंवरनिर्जरामोक्षनामानः । पंचत्थी पंचास्तिकाया जीवपुद्गलधर्माधर्माकाशनामानः पंचास्तिकाया उच्यन्ते । सत्त तच्च णिद्दिठा सप्त तत्वानि निर्दिष्टानि कथितानि जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षनामानि । सद्दहइ ताण एवं श्रद्दधाति तेषां रूपं स्वरूपं । सो सदिट्ठी मुणेयन्वो स पुमान् सदृष्टिरिति मन्तव्यो ज्ञातव्यः । तेषु द्रव्यादिषु जीवः सचेतनः । पुद्गलो धर्मोऽधर्मः काल आकाशश्च पंचाचेतनाः । षड्विधोऽपि पुद्गलो मूर्तः । इतरे पंचामूर्ताः । जीवपुद्गलयोर्गतेः कारणं धर्मः । सर्वेषां स्थितेः कारणमधर्मः । सर्वेषामाधारमाकाशः । वर्तनालक्षणः कालः रत्नानां राशिवत् भिन्नपरमाणुकः ।धर्माधर्माकाशा अखंडप्रदेशाः । कालपुद्गलयोर्जीवानां च प्रदेशेषु खण्डत्वं, न त्वेकजीवस्य प्रदेशानां खण्डत्वं । धर्माधर्मकालाकाशाश्चत्वारो गमनागमनरहिताः । गमनागमने जीवपुद्गलानामन्यत्र सिद्धजीवेभ्यः । धर्माधर्मैकजीवानामसंख्येयाः प्रदेशाः । संख्येयासंख्येयानन्तप्रदेश आकोश: । पुद्गलोऽनन्तप्रदेशश्च । सर्वाणि द्रव्या
१ तस्स. ग. । २ अत्राकाशस्थाने पुद्गलेन पुद्गलस्थाने चाकाशेन भवितव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org