SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दर्शनप्राभृतं । भूतं जिनवचनं औषधं, विषयसुखविरेचन-विषयाणां पंचेन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां सम्बन्धित्वेन यत्सुखं विषयसुखं तस्य विरेचनं दूरीकरणं । अमिदभूदं अमृतभूतं अविद्यमानं मृतं मरणं यत्र यस्माद्वा भव्यानां तदमृतभूतं अमृतोपमं । अतएव जरमरणवाहिहरणं जरामरणव्याधिहरणं विनाशकं । खयकरणं सव्वदुक्खाणं क्षयकरणं मूलादुन्मूलकं सर्वदुःखानां शारीरमानसागन्तुदुःखानां विध्वंसकमित्यर्थः । एकं जिणस्स रूवं बीयं उकिटसावयाणं तु । अवरहियाण तइयं चउत्थं पुण लिंगदंसणं णत्थि ॥१८॥ एकं जिनस्य रूपं द्वितीयं उत्कृष्टश्रावकानां तु। अवरस्थितानां तृतीयं चतुर्थं पुनः लिङ्गदर्शनं नास्ति ॥ एक्कं जिणस्स रूवं एकमद्वितीयं जिनस्य रूपं नग्नरूपं । बीयं द्वितीयं उत्कृष्टश्रावकाणां तु । उक्तं च आद्यास्तु षड् जघन्याः स्युर्मध्यमास्तदनु त्रयः। शेषौ द्वावुत्तमायुक्तौ जैनेषु जिनशासने ॥१॥ तेन " सणवयसामाइयपोसहसचित्तरायभत्ते य” इति गाथार्द्धकथिताः श्रावकाः षड्जघन्याः कथ्यन्ते । “ बंभारंभपरिग्गह" इति गाथापादोक्तास्त्रयः श्रावका मध्यमा उच्यन्ते । शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने “ अणुमणमुद्दिट्ठदेसविरदो य" अनुमतादुद्दिष्टाद्विरतो देशविरतश्च कथ्यते उत्कृष्टः श्रावकः उच्यते इति । अवरहियाण तइयं अवरस्थितानां आर्यिकाणां तइयं ( तृतीयं )। चउत्थं पुण लिंगदसणं णत्थि अपरस्थितानामार्यिकाणां तृतीयं दर्शनं चतुर्थ पुन षट्० २ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy