SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृते र्थानामुपलब्धिः जीवादितत्वानां जीवस्य परिज्ञानं भवति । उवलद्धपयत्थे पुण उपलब्धपदार्थे पुनः उपलब्धश्चासौ पदार्थ: उपलब्धपदार्थस्तस्मिन्नुपलब्धपदार्थे सति । किं भवति, सेयासेयं वियाणेदि श्रेयः पुण्यं विशिष्टतीर्थकरनामकर्म, अश्रेयः पापं चतुर्गतिपरिभ्रमणकारणं विशेषेण जानीते । उक्तं च १६ न सम्यक्त्वसमं किंचित्रैकाल्ये त्रिजगत्यपि । श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृतां ॥ १ ॥ सेयासेयविदण्डू उद्भुददुस्सील सीलवंतो वि । सीलफलेणन्भुदयं तत्तो पुण लहइ णिव्वाणं ॥ १६ ॥ श्रेयोऽश्रेयोवेत्ता उद्धृतदुश्शीलः शीलवानपि । शीलफलेनाभ्युदयं ततः पुनः लभते निर्वाणम् ॥ सेयासेयविद श्रेयसः पुण्यस्य, अश्रेयसः पापस्य विदण्डू - वेत्ता पुमान् । उद्भुददुस्सील उन्मूलितदुःशीलो भवति । सीलवंतो वि शीलवान् पुमान् । सीलफलेण शीलफलेन कृत्वा । अन्भुदयं लहइ अभ्युदयं सांसारिकं सुखं प्राप्नोति । तत्तो पुण णिव्वाणं लहइ ततः पुनर्निर्वाण लभते मोक्षं प्राप्नोति । 9 जिणवयणमोसह मिणं विसयसुहविरेयणं अमिदभूयं । जरमरणवाहिहरणं खयकरणं सव्वदुक्खाणं ॥ १७ ॥ जिनवचनमौषधिमिदं विषयसुखविरेचनममृतभूतम् । जरामरणव्याधिहरणं क्षयकरणं सर्वदुःखानाम् ॥ जिणवयणमोसहमिणं जिनवचनमौषधमिदं इदं पूर्वोक्तलक्षणं जिनवचनं सर्वज्ञवीतरागभाषितं हेतुहेतुमद्भावसहितं औषधं वर्तते । कथं १ भूदं ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy