________________
दर्शनप्राभृतं ।
द्विविधमपि ग्रन्थत्यागं त्रिष्वपि योगेषु संयमः तिष्ठति । ज्ञाने करणशुद्धे उद्भभोजने दर्शनं भवति ॥
दुविहं पि गंथचायं द्विविधोऽपि ग्रन्थत्यागः । तीसु वि जोएस त्रिष्वपि योगेषु मनवचनकायशुद्धिषु । संजमो ठादि संयमश्चारित्रं तिष्ठति भवति । णाणम्मि करणसुद्धे सम्यग्ज्ञाने कृतकारितानुमोदनिर्मले सति । उभसणे उद्भभोजने च सति । दंसणं होदि सम्यक्त्वं भवति मुनीनामिति शेषः । अथ कोऽसौ द्विविधो ग्रन्थ इत्याह- बाह्याभ्यन्तरभेद इति । तत्र बाह्यः परिग्रहः कथ्यते
क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदं । कुधं भांडं हिरण्यं च सुवर्णे च बहिर्दश ॥ १ ॥
क्षेत्रं सस्याधिकरणं । वास्तु गृहं । धनं द्रम्मादि । धान्यं गोधूमादि । द्विपदं दासीदासादि । चतुष्पदं गोमहिषीवेगसरगजाश्वादि । कुप्यं कर्पासचन्दनकुंकुमादि । भांडं तैलघृतादिभृतं पात्रं । हिरण्यं ताम्ररूप्यादि । घटिताघटितं सुवर्ण श्रीनिकेतनं हाटकं कनकमिति यावत् । अभ्यन्तरप्रन्यश्चतुर्दशभेद:--
मिथ्यात्ववेद हास्यादिषट्कषायचतुष्टयं । रागद्वेषौ च संगाः स्युरन्तरङ्गाश्चतुर्दश ॥ १ ॥ सम्मत्तादो णाणं णाणादो सव्वभावउवलद्धी । उवलद्धपयत्थे पुण सेयासेयं वियादि ॥
१५ ॥
१५
सम्यक्त्वतो ज्ञानं ज्ञानतः सर्वभावोपलब्धिः । उपलब्धपदार्थेः पुनः श्रेयोऽश्रेयो विजानाति ॥ सम्मत्तादो णाणं सम्यक्त्वाज्ज्ञानं भवति यस्य सम्यक्त्वं नास्ति स पुमानज्ञान एवेत्यर्थः । णाणादो सव्वभावउवलद्धि ज्ञानात्सर्वपदा
१ यानं शय्यासनं कुप्यं भाण्डं चेति बहिर्दश । इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org