SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ षट्प्राभते. ईदृशदर्शनेषु भ्रष्टास्त्यक्तमयूरपिच्छकमण्डलुपरमागमपुस्तकाः सन्तो गृहस्थवेषधारिणः संयमधराणां संयमिनां सदृष्टीनां । पाए न पडंति पादे चरणयुगले न पतन्ति नैव नमोऽस्त्विति कुर्वन्ति अभिमानित्वान्मुशलवत्तिष्ठन्ति । ते किं भवन्ति ? ते होंति लल्लमुआ ते भवन्ति लल्ला अस्फुटवाचो मूका वक्तुं श्रोतुमशिक्षिताः । बोही पुण दुल्लहा तेसिं बोधिः खलु रत्नत्रयप्राप्तिः पुनर्जन्मशतसहस्रेष्वपि दुर्लभा कष्टेनापि लब्धुमशक्या तेसिं-तेषां जैनाभासतदाभासानां च मिथ्यादृष्टीनामिति शेषः । जे पि पडंति च तेसिं जाणंता लज्जगारवभयेण । तेसिं पि णत्थि बोही पावं अणमोअमाणाणं ॥१३॥ येपि पतन्ति च तेषां जानन्तो लज्जागौरवभयेन । तेषामपि नास्ति बोधिः पापं अनुमन्यमानानाम् ॥ जे पि पडंति च तेसिं ये सम्यग्दर्शनादभ्रष्टा अपि पुरुषा तेसिंतेषां परित्यक्तजिनमुद्राणां मयूरपिच्छशौचोपकरणज्ञानोपकरणरहितानां पादे कायधरयुगले पतन्ति नमस्कारं कुर्वन्ति पूर्वमुद्राधरा इति । जाणता विदन्तोऽपि जिनमुद्राविराधका एते इत्यवगच्छन्तोऽपि । लज्जागारवभएण लज्जया त्रपया, गारवेण रसर्द्धिसातगण, भयेनायं राजमान्योऽस्माकं कमप्युपद्रवं कारयिष्यतीत्यादिभीत्या च । तेसि पि णत्थि बोही तेषामपि बोधिर्नास्ति ते रत्नत्रयं प्रपालयन्तोऽपि रत्नत्रयाद्भ्रष्टा इति ज्ञातव्या इति भावः । कथंभूतानां तेषां, पावं अणुमोयमाणाणं जिनदर्शनभ्रंशाद्यदुत्पन्नं पापं पातकं तदनुमन्यमानानामिति शेषः । उक्तं च समन्तभद्रेण गणिना भयाशास्नेहलोभाच कुदेवागमलिंगिनां । प्रणामं विनयं चैव न कुर्युः शुद्धदृष्टयः॥१॥ दुविहं पि गंथचायं तीसु वि जोएसु संजमो ठादि । णाणम्मि करणसुद्धे उब्भसणे दंसणं होई ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy