________________
दर्शनप्राभृतं । चिदपि मोक्षं प्राप्स्यति, एवं विधो मनोभिप्रायो निर्ग्रन्थलक्षणमोक्षमार्गे रुचिर्मार्गसम्यक्त्वं द्वितीयमुच्यते ।२। त्रिषष्ठिलक्षणमहापुराणसमाकर्णनेन बोधिसमाधिप्रदानकारणेन यदुत्पन्नं श्रद्धानं तदुपदेशनामकं सम्यदर्शनं भण्यते । ३ । मुनीनामाचारसूत्रं मूलाचारशास्त्रं श्रुत्वा यदुत्पद्यते तत्सूत्रसम्यक्त्वं कथ्यते । ४ । उपलब्धिवशादुरभिनिवेशविधंसानिरुपमोपशमाभ्यन्तकारणाद्विज्ञातदुर्व्याख्येयजीवादिपदार्थबीजभूतशास्त्राद्यदुत्पद्यते तद्वीजसम्यक्त्वं प्ररूप्यते । ५। तत्वार्थसूत्रादिसिद्धान्तनिरूपितजीवादिद्रव्यानुयोगद्वारेण पदार्थान् संक्षेपेण ज्ञात्वा रुचिं चकार यः स संक्षेपसम्यक्त्वः पुमानुच्यते । ६ । द्वादशाङ्गश्रवणेन यजायते तद्विस्तारसम्यक्त्वं प्रतिपाद्यते । ७ । अंगबाह्यश्रुतोक्तात् कुतश्चिदर्थादङ्गबाह्यश्रुतं विनापि यत्प्रभवति तत्सम्यक्त्वमर्थसम्यक्त्वं निगद्यते । ८। अंगान्यङ्गबाह्यानि च शास्त्राण्यधीत्य यदुत्पद्यते सम्यक्त्वं तदवगाढमुच्यते । ९ । यत्केवलज्ञानेनार्थानवलोक्य सदृष्टिर्भवति तस्य परमावगाढसम्यक्त्वं कथ्यते । १० । तथा चोक्तं गुणभद्रेण गणिना
आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव __त्यक्त ग्रन्थप्रपंचं शिवममृतपथं श्रद्दधन्मोहशान्तः । मार्गश्रद्धानमाहुः पुरुषवरपुराणोपदेशोपजाता
या संज्ञानागमाब्धिप्रसूतिभिरुपदेशादिरादेशि दृष्टिः॥१॥ आकण्याचारसूत्रं मुनिचरणविधेः सूचनं श्रद्दधानः
सूक्तासौ सूत्रदृष्टिदुरधिगमगतेरर्थसार्थस्य बीजैः । कैश्चिजातोपलब्धेरसमशमवशाद्वीजदृष्टिः पदार्थान्
संक्षेपेणैव बुध्वा रुचिमुपगतवान् साधु संक्षेपदृष्टिः॥२॥ याश्रुत्वा द्वादशाङ्गीं कृतरुचिरथ तं विद्धि विस्ताराष्टिं
संजातात्कुितश्चित्प्रवचनवचनान्यन्तरेणार्थदृष्टिः। दृष्टिः साङ्गाङ्गबाह्यप्रवचनमवगाह्योत्थिता यावगाढा कैवल्यालोकितार्थे रुचिरिह परमावादिगाढति रूढा ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org