SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३७३ नित्यस्नानं गृहस्थस्य देवार्चनपरिग्रहे । यतेस्तु दुर्जनस्पर्शात् स्नानमन्यद्विगर्हितं ॥१॥ तत्र यते: रजस्वलास्पर्शे अस्थिस्पर्शे चण्डालस्पर्शे शुनकगर्दभनापितयोगकपालस्पर्श वमने विष्टोपरि पादपतने शरीरोपरिकाकविण्मोचने इत्यादिस्नानोत्पत्तौ सत्यां दंडवदुपविश्यते, श्रावकादिकश्छात्रादिको वा जलं नामयति, सर्वांगप्रक्षालनं क्रियते, स्वयं हस्तमर्दनेनागमलं न दूरीक्रियते, स्नाने संजाते सति उपवासो गृह्यते, पंचनमस्कारशतमष्टोत्तरं कायोत्सर्गेण जप्यते. एवं शुद्धिर्भवति । एवं मूलगुणं छित्वा बाहिरकम्मं करेइ जो साहू बहिःकर्म आतपनयोगादिकं यः साधुः: करोति। सो ण लहइ सिद्धिसुहं स साधुः सिद्धिसुखं मोक्षसौख्यं न लभते न प्रामोति । जिणलिंगविराधगो णिचं स साधुर्जिनलिंगविराधको भवति, कथं ? नित्यं सर्वकालं ।। किं काहिदि बहिकम्मं किं काहिदि बहुविहं च खवणं च । किं काहिदि आदावं आदसहावस्स विवरीदो ॥ ९९ ॥ किं करिष्यति बाह्यकर्म किं करिष्यति बहुविधं च क्षमणं च । किं करिष्यति आतापः आत्मस्वभावाद्विपरीतः ॥ किं काहिदि बहिकम्मं किं करिष्यति-न किमपि करिष्यति, मोक्षं न करिष्यति, किं तत् ? बहिष्कर्म पठनपाठनादिकं प्रतिक्रमणादिकं च । किंकाहिदि बहुविहं च खवणं च किं करिष्यति-न किमपि करिष्यति, न मोक्षं दास्यति । किं तत् ? बहुविधं नानाप्रकारं क्षमणमुपवासः। किं काहिदि आदावं किं करिष्यति-न किमपि करिष्यति, कोऽसौ ? आतापः धर्मकायोत्सर्गः पूर्वोक्तः समाचारः । कथंभूतः, आदसहावस्स विवरीदो आत्मस्वभावाद्विपरीत: बाह्यवस्तुसम्मोहित्तमनाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy