SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७२ षट्प्राभृते मिथ्यात्वं विधेहि | अर्थतस्तु सम्यक्त्वं विधेहीति सम्यगुपदेशो भगवतां श्री कुन्दकुन्दाचार्याणां । बाहिरसंगविमुको ण वि मुको मिच्छभाव णिग्गंथो । किं तस्स ठाणमउणं ण वि जाणदि अप्पसमभावं ॥ ९७ ॥ बाह्यसंगविमुक्तः न विमुक्तः मिथ्याभावेन निर्ग्रन्थः । किं तस्य स्थानमानं नापि जानाति आत्मसमभावम् ॥ बाहिरसंगविमुक्क बहि:संगाद्विमुक्तो रहितो नग्नवेषः । ण वि मुक्को मिच्छभाव णिग्गंथो नापि मुक्तः नैव मुक्तः न विमुक्तो वा मिथ्याभावेन - मिध्यात्वदोषेण रहितो न भवति, कोऽसौ ? निग्रन्थो दिगम्बरवेषाजीवी जीवः । किं तस्स ठाणमउणं तस्य निग्रन्थस्य स्थानं उद्भकायोत्सर्गः किं न किमपि, कर्मक्षयलक्षणं मोक्षं न साधयतीत्यर्थः । तथा मौनं किं- मूकत्वमपि न किमपि, मोक्षाश्रितं कार्यं न करोतीत्यर्थः । ण वि जाणदि अप्पसमभावं नापि जानीते न लभते न वेत्ति आत्मसमभावं आत्मनां जीवानां समत्वपरिणामं सर्वे जीवाः शुद्धबुद्धैकस्वभावा इति सिद्धान्तवचनं न जानाति । - मूलगुणं छित्तूणय बाहिरकम्मं करेइ जो साहू | सोण लहइ सिद्धिसुहं जिणलिंगविराधगो णिचं ॥ ९८ ॥ मूलगुणं छित्वा बाह्यकर्म करोति यः साधुः । स न लभते सिद्धिसुखं जिनलिङ्गविराधकः नित्यम् ॥ मूलगुणं छित्तूण य मूलगुणमष्टाविंशतिभेदभिन्नं पंचमहाव्रतानि पंचसमितयः पंचेन्द्रियरोधो लोचः षडावश्यकानि अचेलत्वमस्नानं क्षितिशयनं दन्तधावनरहितत्वं उद्भभोजनं एकभक्तं इत्यष्टाविंशतिमूलगुणाम्नायः । तत्र यदुक्तः स्नानाभावस्तस्यायमर्थ: Jain Education International -: For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy