SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । दुद्धृत्य इन्द्रचन्द्रमुनीन्द्रवन्दिते पदे धरतीति धर्मस्तं । जिणदेवदेसियंजिनदेवदेशितं श्रीमद्भगवदर्हत्सर्वज्ञवीतरागकथितं करोति । विवरीयं कुव्वंतो विपरीतं कुर्वन् रुद्रजिमिनिकणभक्षकापिलसौगतादिभिरुपदिष्टं धर्म कुर्वन् पुमान् । मिच्छादिट्टी मुणेयव्वो मिथ्यादृष्टिरिति ज्ञातव्यः । मिच्छादिही जो सो संसारे संसरेइ सुहरहिओ । जम्मजरमरणपउरे दुक्खसहस्साउले जीवो ॥९५॥ - मिथ्यादृष्टिः यः सः संसारे संसरति सुखरहितः । जन्मजरामरणप्रचुरे दुःखसहस्राकुले जीवः ॥ मिच्छादिही जो सो मिथ्यादृष्टिर्यो जीवः सः। किं करोति ? संसारे संसरेइ सुहरहिओ संसारे भवसागरे संसरति सम्यक्प्रविशति सुखरहितो दुःखसहितः । कथंभूते संसारे, जम्मजरमरणपउरे जन्मजरामरणप्रचुरे बहुले । दुक्खसहस्साउले जीवो दु:खानां सहस्रैरनन्तदुःखैराकुले परिपूर्णे, कः ? जीवो मिथ्यादृष्टिप्राणीति शेषः । सम्म गुण मिच्छ दोसो मणेण परिभाविऊण तं कुणसु । जं ते मणस्स रुचइ किं बहुणा पलविएणं तु ॥ ९६ ॥ सम्यक्त्वं गुणः मिथ्यात्वं दोषः मनसा परिभाव्य तत्कुरु । यत्ते मनसे रोचते किं बहुना प्रलपितेन तु ॥ सम्म गुण मिच्छ दोसो सम्यक्त्वं गुणो भवति, मिथ्यात्वं दोषो भवति पापं स्यात् । मणेण परिभाविऊण तं कुणसु इममर्थ मनसा चित्तेन परिभाव्य सम्यग्विचार्य तत्कुरु तत्त्वं विधेहि । तत् किं ? जंते मणस्स रुञ्चइ यद्योर्गुणदोषयोर्मध्ये ते तव मनसे रोचते । किं बहुणा पलविएणं तु बहुना प्रलपितेन अनर्थकवचनेन किं-न किमपि । यदि तव मनसे गुणो रोचते तर्हि सम्यक्त्वं विधेहि उत दोषो रोचते तर्हि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy