SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ षट्प्राभते त्यादि-कुत्सितलिंगं च वन्दते नमस्करोति अभिवादनं विदधाति नमोनारायणमिति वाचा प्रणमति मस्तकेन धन्दे इति प्रणमति यस्तु पुमान् । लज्जाभयगारवदो लजया कृत्वा भयेन च गारवेण गर्वेण च यो वन्दते । मिच्छादिही हवे सो हु मिथ्यादृष्टिर्भवति सः । कथं ? हु-स्फुटं । सपरावेक्खं लिंगं राई देवं असंजयं वंदे । माणइ मिच्छादिट्टी ण हु मण्णइ सुद्धसम्मत्तो ॥१३॥ स्वपरापेक्ष लिङ्गं रागिणं देवं असंयतं वन्दे । मानयति मिथ्यादृष्टिः न हि मानयति शुद्धसम्यक्त्वः ।। सपरावेक्खं लिंगं स्वपरापेक्षं लिगं, स्वापेक्षं ऋषिपत्नीयुतं परापेक्षं रक्तवस्त्रमृगचर्मादि सापेक्षं लिंगं वेषं । राई देवं असंजयं वंदे रागिणं देवं पार्वतीपति लक्षमीकान्तं तिलोत्तमामुखकमलप्रघट्टकचतुर्वक्त्रं चेत्यादिकं देवं, असंजयं वंदे-असंयतं अनेकमानुषमांसदक्षिणमुखभक्षकं वन्दे इति यो वक्ति । माणइ मिच्छादिही मानयति मिथ्यादृष्टिः-श्रद्दधाति मिथ्यादृष्टिः जिनानामभक्तः । ण हु मण्णइ सुद्धसम्मत्तो न मानयति न सन्मानं ददाति, कोऽसौ ? शुद्धसम्यक्त्वो निर्मलसम्यक्त्वरत्नमंडितः । सम्माइट्टी सावय धम्मं जिणदेवदेसियं कुणदि । विवरीयं कुव्वंतो मिच्छादिट्टी मुणेयव्वो ॥९४॥ सम्यग्दृष्टिः पावकः धर्म जिनदेवदेशितं करोति । विपरीतं कुर्वन् मिथ्यादृष्टिः ज्ञातव्यः ॥ सम्माइही सावय सम्यग्दृष्टिः श्रावकः सम्यक्त्वरत्नसंशोभितं गृहस्थः । अथवा श्रावयतीति श्रावको मुनिः। अथवा हे सम्यग्दृष्टिश्रावक इति सम्बोधनपदं । धम्मं जिणदेवदेसियं कुणदि धर्म दुर्गतिपाता १ मस्तकेन वंदयति प्रणमति ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy