________________
मोक्षप्राभृतं ।
यथाजातरूपरूपं सुसंयतं सर्वसंगपरित्यक्तम् ।
लिङ्गं न परापेक्षं यः मन्यते तस्य सम्यक्त्वम् ॥ जहजायरूवरूवं यथाजातरूपं मातुर्गर्भनिर्गतबालकरूपं तद्वद्रूपमाकारो यस्य लिंगस्य तद्यथाजातरूपरूपं । सुसंजयं सव्वसंगपरिचत्तं पुनः कथंभूतं लिंगं, सुसंयतं सुष्ठु-अतिशयवत्संयमसहितं, सर्वसंगपरित्यक्तं सर्वपरिग्रहरहितं शिरःकर्णकण्ठकरकटीक्रमप्रभृत्यङ्गाभरणवस्त्ररहितं सर्वथा नग्नं । लिंगं ण वरावेक्खं ईदृग्विधं लिंगं कथंभूतं, न परापेक्षं परापेक्षारहितं शरीरमात्रपरिग्रहं । जो मण्णइ तस्स सम्मत्तं ईदृशं लिंगं निग्रन्थवेषं यः पुमान् मन्यते साधु वक्ति तस्य सम्यक्त्वं भवति, यः सग्रन्थलिंगेन मोक्षं वक्ति स मिथ्यादृष्टितिव्य इति ।
कुच्छियदेवं धम्म कुच्छियलिंगं च वंदए जो दु । लज्जाभयगारवदो मिच्छादिही हवे सो हु ॥१२॥
कुस्सितदेवं धर्म कुत्सितलिङ्गं च वन्दते यस्तु ।
लज्जाभयगारवतः मिथ्यादृष्टिर्भवेत् स हु ॥ कुच्छियदेवं धम्मं कुत्सितदेवं श्रीमहादेवं ब्रह्माणं नारायणं बुद्धं (विं चन्द्रमसं यक्षं त्रिपुरभैरवीं चेत्यादिकं । कुत्सितधर्म आलंभनकुंडवण्डितपशुचक्रवषट्कारसम्बन्धं शूलपाणि, झंपापातं, वह्निप्रवेशं, भर्तुः सह गमनं, सूर्यार्घग्रहणस्नानं, संक्रान्तिदानं, नदीसागरादिमंजनं, गोयोनेस्पर्शनं, तन्मूत्रपानं, शमीतरुपूजनं, पिप्पलालिंगनं मृत्तिकाविलेपनं, कृष्णसारचर्मवसनं, नक्तभोजनं, धूलीदृषदुच्चयवन्दनं, रत्नपूजनं, वाहनार्चनं, भूमिपूजनं, खड्गपूजनं, पर्वतपूजनं, घृते मुखवीक्षणमित्यादि कुत्सितधर्म । कुच्छियलिंगं च वंदए जो दु कुत्सितलिंगं नग्नाण्डकं,जटाधारिणं, पंचशिखं, एकदण्डिन, त्रिदण्डिनं, शिखाधारिणं, सौगतपाशुपतयोगपे१ भी सह गमनं ख. इदमेव साधु । षद० २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org