________________
३६८
पट्प्राभृते
मर्धाङ्गे धरति जटामध्ये गंगां चादधाति, ब्रह्मा वशिष्टस्य पितृत्वादुर्वशीवल्लभत्वात्, विष्णुः षोडशसहस्र गोपीर्भजते गोपनाथस्य दुहितरं च, सूर्यो रण्णादेवीं चन्द्रो रोहिणी च भुंक्ते तेनैते रागवन्तोऽपि ज्ञातव्याः । ब्रह्मा गजासुरं द्वेष्टि, रुद्रस्त्रिपुरदानवं भस्मयति, विष्णुः कंस केशचाणूरजरासन्धान् पिनष्टि तेनैते द्वेषवन्तोऽपि ज्ञातव्याः । ब्रह्मा वशिष्टमुखं पश्यति, रुद्रस्तु स्कन्दं निरीक्षते, विष्णुः प्रद्युम्ने स्निह्यति तैनेते मोहिनोऽपि ज्ञातव्याः । ब्रह्मणः सृष्टिचिन्ता समुत्पन्ना रुद्रस्य नरकवरदानात् विष्णोर्जरासन्धशिशुपालादिवधे महती चिन्ता समुत्पन्ना । ब्रह्मा उर्वश्यां रमते, रुद्रः पार्वतीं भुंक्ते, विष्णुः सत्यभामाद्याः क्रीडति तेनैतेषु रतिदोषोऽपि घटते । ब्रह्मा योगनिद्रां करोति, रुद्रः कैलासे शेते गिरीशनामकत्वात्, विष्णुर्जलशायीति कथ्यते तेनैते प्रमीलावन्तोऽपि विज्ञेयाः निद्रादोषा इत्यर्थः । रुद्रो नरकाय वरं दत्वा विषीदति इत्यादि विषाददोषोऽपि संगच्छते । मैथुनादिषु स्वेदसद्भावोऽपि लोककल्पितदेवानामभ्यूह्यः । खेदस्तु संग्रामादौ । विस्मयस्तु रूपादिदर्शने । इत्यादि लोकदेवतानामष्टादशापि दोषाश्चिन्तनीयाः । सर्वज्ञवीतरागे तु कश्चिदपि दोषो न वर्तते । उक्तं च
I
रागादिदोषसद्भावो ज्ञेयोऽमीषां तदागमात् । असतः परदोषस्य गृहीतौ पातकं महत् ॥ १ ॥ निग्गंथे पोवयणे निग्रन्थे प्रावचने प्रवचननियुक्ते गुरौ । सद्दहणं होइ सम्मत्तं एतेषु धर्मदेवगुरुषु पदार्थेषु श्रद्धानं रुचिः अन्येषु स्ववांतान्नास्वादनवदरुचिः सम्यक्त्वं भवतीति क्रियाकारकसम्बन्धः | जहजारूवरूवं सुसंजयं सव्वसंगपरिचत्तं । लिंगं ण वरावेक्खं जो मण्णइ तस्स सम्मत्तं ॥ ९१ ॥
१ पव्वयणे इति मूलगाथा पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org