SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३६७ ज्जाग्रदवस्थायामपि, यैः पुरुषैः, सम्यक्त्वं सम्यग्दर्शनरत्नं, न मलिनीकृतं निरतिचारं प्रतिपालितं । कथंभूतं सम्यक्त्वं, सिद्धियरं - सिद्धिकरं आत्मोपलब्धिलक्षण मोक्षकारकमिति । तं सम्मत्तं केरिस हवदितं जहा - तत्सम्यक्त्वं कीदृशं भवति तद्यथा —- हिंसारहि धम्मे अहारहदो सवज्जिए देवे | निग्गंथे पावणे सद्दहणं होइ सम्मत्तं ॥ ९०॥ हिंसारहि धर्मे अष्टादशदोषवर्जिते देवे । निर्ग्रन्थे प्रावचने श्रद्धानं भवति सम्यक्त्वम् ॥ हिंसारहि धम्मे हिंसारहिते धर्मे श्रद्धानं सम्यक्त्वं भवतीति सम्बन्धः, हिंसारहितो धर्मो जैनधर्मः । यत्र धर्मे ब्राह्मणक्षत्रियवैश्यशूद्राश्वपश्वादिको जीवो वध्यते सोऽधर्म इति तत्वार्थः । अट्ठारहदोसवज्जिए देवे अष्टादशदोषवर्जिते देवे श्रद्धानमिति सम्बन्धः । रुद्रः किल शृगालश्रेष्ठिनः पुत्रं भक्षितवान् तत्र क्षुधादोषः हिंसादोपश्च । ब्रह्मणः कमण्डलुग्रहणात् पिपासादोषः, जीर्णशरीरत्वात्तस्य जरादोषः । गजचर्मवे ? कण्ठे कालत्वं रुद्रे रुग्दोपः सूर्ये पादकुष्टत्वाद्रुग्दोषः । दशावतारसंयुक्तत्वात् कृष्णे जन्मदोषः वसुदेवदेवकीनन्दनत्वाच्च । त्रयाणामपि मृत्युसद्भावो वेदितव्यः । नरकासुरभयान्नष्टः खलु श्रीमहादेवस्तत्र भयदोषः, ब्रह्मा दंडं धरति, रुद्रः शूलं खण्डपरशुं पिनाकं धनुश्चेत्यादिकं धत्ते, विष्णुश्चक्रं सुदर्शनं कौमोदकीं गदां चेत्यादिकं गृह्णाति तेन त्रयाणामपि भयसद्भावो बुधैरवबुद्धयते । सृष्टिकर्तृत्वसंहर्तृत्वादिकस्तत्र स्मयो मदश्च निश्चीयते विपश्चिद्भिः । रुद्रः पार्वती १ चर्मवत् ख. पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy