SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३६६ षट्प्राभूतेम्माणि क्षिपते विनाशयति दुष्टानि दुःखदायीनि अष्टकर्माणि ज्ञानावरणादीनि । किं बहुणा भणिएणं जे सिद्धा नरवरा गए काले । सिज्झिहहि जे वि भविया तं जाणह सम्ममाहप्पं ॥८८॥ किं बहुना भणितेन ये सिद्धा नरवरा गते काले । ___ सेत्स्यन्ति येऽपि भव्याः तज्जानीत सम्यक्त्वमाहात्म्यं ।। किं बहुणा भणिएणं कि बहुना भणितेन किं प्रचुरेण जल्पितेन न किमपीत्याक्षेपः । जे सिद्धा नरवरा गए काले ये किंचित्सिद्धा मुक्ति गता मोक्ष प्राप्ताः, नरवरा भव्यवरपुण्डरीका भरतसगररामपाण्डवादयः, तत्सर्व सम्यक्त्वमाहात्म्यं जानीत यूयमिति सम्बन्धः, गते काले अतीते काले । सिज्झिहहि जे वि भविया सेत्स्यन्ति भविष्यति काले सिद्धिं यास्यन्ति मोक्ष प्राप्स्यन्ति येऽपि भव्याः । तं जाणह सम्ममाहप्पं तजानीत सम्यक्त्वस्य माहात्म्यं प्रभावं । - ते धण्णा सुकयत्था ते सूरा ते वि पंडिया मणुया । सम्मत्तं सिद्धियरं सिवणे वि ण मइलियं जेहिं ॥ ८९ ॥ ते धन्याः सुकृतार्थाः ते शूराः तेपि पण्डिता मनुजाः। सम्यक्त्वं सिद्धिकरं स्वप्नेपि न मलिनितं यैः ॥ ते धण्णा सुकयत्था ते पुरुषा धन्याः पुण्यवन्तः, ते पुरुषाः सुकृतार्थाः सुष्टु अतिशयेन कृतार्थाः कृतकृत्याः साधितचतुःपुरुषार्थाः । ते मूरा ते वि पंडिया मणुया ते पुरुषाः शूराः सुभटाः पापकर्मशत्रुविध्वंसकत्वात् , ते पुरुषाः पण्डिताः विद्वांसस्तार्किका अपि मनुजा मानवा अपि सन्तो देवा इत्यर्थः । सम्मत्तं सिद्धियरं सिवणे विण मडलियं जेहिं सम्यक्त्वं सम्यग्दर्शनं, स्वप्नेऽपि निद्रायां, अपिशब्दा Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy