SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ na.in मोक्षप्राभतं । ३६५ रविणासयरं सर्वज्ञवीतरागवचनमिदं कथंभूतं ? संसारविनाशकरं मोक्षप्रदायकं । सिद्धियरं आत्मोपलब्धिकरं । कारणं हेतुभूतं । परमं उत्कृष्टं उपदेशानामुपदेशोत्तमं । गहिऊण य सम्मत्तं सुनिम्मलं सुरगिरीव निकंपं । तं झाणे झाइज्जइ सावय दुक्खक्खयहाए ॥८६॥ ___ गृहीत्वा च सम्यक्त्वं सुनिर्मलं सुरगिरिरिव निष्कम्मम् । ___ तद् ध्याने ध्यायते श्रावक ! दुःखक्षयार्थे । गहिऊण य सम्मत्तं गृहीत्वा च सम्यक्त्वं सम्यग्दर्शनं तत्वार्थश्रद्धानलक्षणं । सुनिम्मलं सुरगिरीव निकंपं सुनिम्मलं-मुष्ठु अतिशयेन निर्मलं निरतिचारं शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवलक्षणातिचाररहितं । सुरगिरिवन्मेरुपर्वत इव निष्कम्पं चलमलिनत्वरहितं । तं झाणे झाइज्जइ तजिनवचनं सम्यक्त्वं वा ध्याने धर्म्यध्यानावसरे दानपूजादिस्तवनमहापुराणादिशास्त्रश्रवणसामायिकजिनयात्राप्रतिष्ठादिप्रस्तावे ध्यायते मुहुर्मुहुश्चिन्त्यते भाव्यते । सावय दुक्खक्खयहाए हे श्रावक सम्यग्दृष्टयुपासक ! हे मुने ! च, श्रावयति धर्ममिति श्रावक इति व्युत्पत्तेः, दुःखक्षयार्थे । सम्मत्तं जो झायदि सम्माइट्टी हवेइ सो जीवो।। सम्मत्तपरिणदो उण खवेइ दुदृढकम्माणि ॥ ८७॥ सम्यक्त्वं यो ध्यायति सम्यग्दृष्टिः भवति स जीवः । सम्यक्त्वपरिणतः पुनः क्षयति दुष्टाष्टकर्माणि ॥ सम्मत्तं जो झायदि सम्यक्त्वमनर्थ्यमाणिक्यं यो जीवो ध्यायति चिन्तयति पुनः पुनर्भावयति । सम्माइट्ठी हवेइ सो जीवो सम्यग्दष्टिर्भवति स आसन्नभव्यजीवः । सम्मत्तपरिणदो उण सम्यक्त्वरत्नपरिणतः सम्यग्दर्शनमयीभूतः पुनः । किं भवति ? खवेइ दुइटक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy