________________
३६४
षट्प्राभृते
पुरुषाकार आत्मा योगी वरज्ञानदर्शनसमग्रः ।
यो ध्यायति स योगी पापहरो भवति निर्द्वन्द्वः ॥ पुरिसायारो अप्पा पुरुषस्य नरस्याकार आकृतिर्यस्य स पुरुषाकारः, एवं गुण विशिष्टः कः ? आत्मा चेतनस्वभावो जीवतत्वं, जोई वरणाणदंसणसमग्गो योगी मुनिः, इत्यनेन गृहस्थस्य मोक्षं ब्रुवाणाः सितपटाः प्रयुक्ता भवन्ति । वरज्ञानदर्शनसमग्रः केवलज्ञानकेवलदर्शनपरिपूर्णः । इत्यनेनाचैतन्यमात्मानं मन्यमानाः कापिलाः शुनका इव निराकृताः । जो झायदि सो जोई एवं गुणविशिष्टमात्मानं यो मुनि
ायति स योगी ध्यानी भवति । अन्यश्चार्वाको नास्तिको योगिनामा । एवं स्थाने स्थाने मतान्तराश्रयेण व्याख्यानं कर्तव्यमिति भावः । पावहरो भवदि णिहंदो पापहरस्त्रिषष्ठिप्रकृतिविच्छेदको भवति घातिसंघातघातकः स्यात् , निर्द्वन्द्वः समवशरणागतपरस्परविरोधिजन्तुकलहनिषेधक इत्यर्थः ।
एवं जिणेहि कहियं सवणाणं सावयाण पुण पुणसु । संसारविणासयरं सिद्धियरं कारणं परमं ।। ८५॥
एतत् जिनैः कथितं श्रवणानां श्रावकाण पुनः पुनः ।
“संसार विनाशकरं सिद्धिकरं कारणं परमम् ॥ एयं जिणेहि कहियं एतद्वातिसंघातघातनादिकं फलं आत्मध्यानस्य, जिन: सर्वज्ञैः कथितं प्रमाणभूतवचनैः प्रतिपादितं । सवणाणं सावयाण पुण पुणसु श्रवणानां दिगम्बराणां महामुन्यपरसंज्ञानामृषीणामिति, न केवलं श्रवणानां श्रावकाणां सदृष्टीनामुपासकानां च यतस्ते दीक्षायोग्या ध्यानाधिकारिणो देशव्रताः सन्त आत्मभावनापरा संसारविरक्तचित्ता आरक्षकगृहीतचौरवत् गृहपरित्यागपरिहारमनसः षोड. शान्यतमस्वर्गगामिनः । पुनः पुनः भणितं तत्वज्ञानविज्ञानार्थ च । संसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org