________________
मोक्षप्राभृतं ।
मणिमद्यानामपायकानां गोवधं कृत्वा संवत्सरे मातृभगिन्यादिभोगालम्पटानां भव्यजीव संबोधने मातृपितृवद्धितोपदेशकानां पापघटाग्राहकाणां, इत्यादिसावद्य कर्मरहितानां प्रासुकपरगृहयोग्यभोजनभोजकानां अवर्णलोपकानामनुच्छिष्टभुक्तिग्रहणमार्गाणां इत्यादिगुणगणगरिष्ठानां जगदिष्टानां गुरूणां ये भक्ताः पादपंकजमधुलिहा (हः) देवगुरूणां भक्ता इत्युच्यन्ते । णिव्वेयपरंपरा विचिंतता निर्वेदः संसारशरीरभोगविरागता तस्य परंपरा नानाविधोपदेशस्तां विशेषेण चिन्तयन्तः पर्यालोचयन्तः नरकादिगतिगर्तपातिपातकभ्यभीतमूर्तयः । झाणरया सुचरिता ध्याने धर्म्यशुक्लध्यानद्वये रतास्तत्पराः, सुचारित्राः शोभनाचाराः । ते गहिया मोक्खमग्गमि ते भव्यवरपुण्डरीका गृहीता अङ्गीकृता मोक्षमार्ग इति । णिच्छयणयस्स एवं अप्पा अप्पम्मि अप्पणे सुरदो । सो होदि हु सुचरितो जोई सो लहइ णिव्वाणं ॥ ८३ ॥ निश्चयनयस्यैवं आत्माऽऽत्मनि आत्मने सुरतः ।
1
स भवति हि सुचरित्रः योगी स लभते निर्वाणम् ॥ णिच्छयणयस्स एवं निश्चयनस्यैवमभिप्रायः । एवं कथमिति चेत् ? अप्पा अप्पम्मि अप्पणे सुरदो आत्मा कर्ता, आत्मन्यधिकरणभूते, आत्मने आत्मार्थमिति संप्रदाने तादर्थ्यचतुर्थी, सुष्ठु अतिशयेनालौकिकप्रकारेण रतः तन्मयीभूत एकलोलीभावं गतः । सो होदि हु सुचरितोस आत्मा भवति, कथंभूतो भवति ? सुचरित्रः निश्चयचारित्रः । जोई सो लहइ णिव्वाणं योगी ध्यानवान् पुमान् लभते प्राप्नोति, किं तत् ? निर्वाणं परमसुखं मोक्षामिति, अथवा योगीशो योगिनां ध्यानिनामीशः स्वामी निर्वाणं लभते इति सम्बन्धः । पुरिसायारो अप्पा जोई वरणाणदंसणसमग्गो | जो झायदि सो जोई पावहरो भवदि गिदो ॥ ८४ ॥
Jain Education International
For Private & Personal Use Only
३६३
www.jainelibrary.org