SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६२ षट्प्राभते परीषहसहनशीलाः । जियकसाया क्रोधमानमायालोभकषायरहिताः । पावारंभविमुक्का पापारंभेभ्यो विमुक्ता रहिता हिंसादिपंचपातकविहीनाः सेवाकृषिवाणिज्यादिप्राणातिपातहेतुभूतारम्भरहिताः । ते गहिया मोक्खमग्गम्मि ते गृहीता अङ्गीकृता, मोक्षमार्गे रत्नत्रयलक्षणे । उद्धद्धमज्झलोए केई मज्झंण अहयमेगागी। इय भावणाए जोई पावंति हु सासयं सोक्खं ॥८१॥ उध्वधिोमध्यलोके केचित् मम न अहकमेकाकी । इति भावनया योगिनः प्राप्नुवन्ति हि शाश्वतं सौख्यम् ॥ उद्धद्धमज्झलोए ऊर्ध्वलोकेऽधोलोके मध्यलोके । केई मज्झं ण अहयमेगागी केचिज्जीवा मम न वर्तन्ते, अहकं अहं एकाकी एक एव वर्ते । इय भावणाए जोई इति भावनया योगिनो मुनयः । पावंति हु सासयं सोक्खं प्राप्नुवन्ति लभन्ते हु-स्फुटं शाश्वतं सौख्यं अविनश्वरं परमनिर्वाणसुखं । ठाणं इति पाठे शाश्वतं अविनश्वरं स्थानं मोक्षं प्राप्नुवन्तीति सम्बन्धः । देवगुरूणं भत्ता णिव्वेयपरंपरा विचिंता । झाणरया सुचरित्ता ते गहिया मोक्खमरगम्मि ॥८२ ॥ देवमुरूणां भक्ताः निर्वेदपरम्परां विचिन्तयन्तः । ध्यानरताः सुचरित्राः ते गृहीता मोक्षमार्गे ॥ देवगुरूणं भत्ता देवानामष्टादशदोषरहितानामिन्द्रादिपूजितानां पंचकल्याणप्राप्तानां अष्टमहाप्रातिहार्यशोभितानां संसारसमुद्रनिस्तारकाणां भव्यकमलबोधमार्तण्डानामित्याद्यनन्तगुणगरिष्ठानामर्हदेवानां तथा गुरूणां निग्रन्थाचार्यवर्याणां शास्त्रसमुद्रपारगाणां सम्यग्दर्शनज्ञानचारित्रपवित्रगात्राणां स्त्रीविवर्जितानां विवाहादिपापारम्भविवर्जितानां क्षत्रद्विजवैश्याश्वगजवर्करादिजीवानाममारकाणां मधुलिप्तवनिताभगानास्वादकानां सौत्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy