________________
मोक्षप्राभूतं ।
३६१ क्षुल्लकत्वं च चक्रवर्तिलिंगं, घेत्तूण-गृहीत्वा धृत्वा, जिनवरेन्द्राणां तीर्थकरपरमदेवानां । पावं कुणंति पावा पापं ब्रह्मचर्यभंगादिकं कुर्वन्ति पापाः पापमूर्तयः पापरूपाः । ते चत्ता मोक्खमग्गम्मि ते जिनलिंगोपजीविनः त्यक्ताः पतिता मोक्षमागादित्यर्थः । उक्तं च
अन्यलिंगकृतं पापं जिनलिंगेन मुच्यते। जिनलिंगकृतं पापं वज्रलेपो भविष्यति ॥१॥ जे पंचचेलसत्ता गंथग्गाहीय जायणासीला। आधाकम्मम्मि रया ते चत्ता मोक्खमग्गम्मि ॥७९॥
ये पञ्चचेलसक्ताः ग्रन्थग्राहिणः याचनशीलाः ।
अधःकर्मणि रताः ते त्यक्ता मोक्षमार्गे ॥ जे पंचचेलसत्ता ये मुनयः पंचचेलसक्ताः पंचविधवस्त्रलंपटा अंडजवुडज-वल्कज-चर्मज-रोमजपंचप्रकारवस्त्रेष्वन्यतमं वस्त्रप्रकारं परिदधत्युपदधति च । गंथग्गाहीय जायणासीला ग्रन्थग्राहिणो रिक्थस्वीकारिणः, याचनाशीलाः स्वभावेन याच्आपरा जिनमुद्रां प्रदर्श्य धनं याचन्ते मातरं प्रदर्य भाटी गृह्णन्ति तत्समानाः । आधाकम्मम्मि रया आधाकर्मणि अधःकर्माण निन्द्यकर्मणि उपविश्य भोजनं कारयित्वा भुंजते ये तेऽध:कर्मरता इत्युच्यन्ते । ते चत्ता मोक्खमग्गम्मि ते मुनयस्त्यक्ताः पतिता मोक्षमार्गादिति भावार्थः ।
निग्गंथमोहमुक्का बावीसपरीसहा जियकसाया। पावारंभविमुक्का ते गहिया मोक्खमग्गम्मि ॥ ८०॥ निग्रन्थ मोहमुक्ता द्वाविंशतिपरीषहा जितकषायाः ।
पापारम्भविमुक्ताः ते गृहीता मोक्षमार्गे ॥ निग्गंथमोहमुक्का निग्रन्थाः परिग्रहरहिताः, मोहमुक्ताः पुत्रमित्रकलत्रादिस्नेहरहिताः । बावीसपरीसहा द्वाविंशतिपरीपहा द्वाविंशति
१ "द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु"इत्यमरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org