________________
३६०
षट्प्राभूतेअप्पा झाएवि लहहि इंदत्तं आत्मानं ध्यात्वा भावयित्वा लभन्ते इन्द्रत्वं शक्रपदं । न केवलमिन्द्रत्वं लभन्ते, लोयंतियदेवत्तं केचिदल्पश्रुता अपि साधव आत्मभावनाबलेन लौकान्तिकत्वं लभन्ते पंचमस्वर्गस्यान्ते पर्यन्तप्रदेशेषु तेषां विमानानि सन्ति, तत्र भवा लौकान्तिकाः सुरमुनयश्च कथ्यन्ते, ते स्वर्गे स्थिता अपि ब्रह्मचर्य प्रतिपालयन्ति-स्त्रीरहिता भवन्ति, तीर्थकरसम्बोधनकाले मर्त्य ओकमागच्छन्ति अन्यथा स्वस्थानमेवावतिष्ठन्ते।
चतुर्लक्षाः सहस्राणि सप्त चैव शताष्टकं । विंशतिर्मेलिता एते बुधैौकान्तिका मताः ॥१॥ " सारस्वत्यादित्यवन्ह्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च" इति तेषां अष्टौ जातयः । तथा तेषां षोडशजातयश्च वर्तन्ते । सारस्वतादित्यान्तरे अग्न्याभसूर्याभाः । आदित्यवह्निमध्ये चन्द्राभसत्याभाः । वन्ह्यरुणान्तरे श्रेयस्करक्षेमंकराः । अरुणगर्दतोयमध्ये वृषभोष्टकामचराः । गर्दतोयतुषितान्तरे निर्वाणरजोदिगन्तरक्षिताः । तुषिताव्याबाधमध्ये आत्मरक्षितसर्वरक्षिताः । अव्याबाधारिष्टान्तरे मरुद्वसवः । अरिष्टसारस्वतान्तरे अश्वविश्वाः । तत्थ चुआ णिव्वुदिं जंति तस्माच्च्युता निवृतिं निर्वाण यान्ति गच्छन्ति । सर्वेऽपि पर्वधारिण एकं गर्भवासं गहीत्वा मोक्षं प्राप्नुवन्ति ।
जे पावमोहियमई लिंगं घेत्तूण जिणवरिंदाणं । पावं कुणंति पावा ते चत्ता मोक्खमग्गम्मि ॥७८ ॥
ये पापमोहितमतयः लिङ्गं गृहीत्वा जिनवरेन्द्राणाम् ।
पापं कुर्वन्ति पापाः ते त्यक्ता मोक्षमार्गे ॥ जे पावमोहियमई ये मुनयः पापमोहितमतयः पापेन ब्रह्मचर्यभंगप्रत्याख्यानभंजनादिना मोहिता लोभं प्रापिताः पापमोहितमतयः । लिंगं घेत्तण जिणवरिंदाणं लिंगं चिन्हें मुद्रां नग्नत्वं वस्त्रमात्रोपेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org