________________
मोक्षप्राभृतं । पश्चान्मयूरपिच्छैः प्रतिलेख्य ग्रहणं विसर्जनं च आदाननिक्षेपणासमितिः, प्रतिष्ठापनासमितिः-मलमूत्रशरीरादिकस्याविरुद्धनिर्जन्तुप्रदेशे विसर्जन एतासु पंचसु समितिषु यो मूढो निर्विवेकः । तिसृषु गुप्तिषु मनोगुप्तिवाग्गुप्तिकायगुप्तिषु । जो मूढो अण्णाणी यः पुमान् मूढो निर्विवेकोऽज्ञानी जिनसूत्रबहिर्भूतः। ण हु कालो भगइ झाणस्स न विद्यते हु-स्फुटं, कोऽसौ ? कालोऽवसरः, ध्यानस्य सप्तमयोगस्य, एवं भणति ब्रूत ।
भरहे दुस्समकाले धम्मज्झाणं हवेइ साहुस्त । तं अप्पसहावठिदे ण हु मण्णइ सो वि अण्णाणी ॥७६॥
भरते दुःषमकाले धम्य॑ध्यानं भवति साधोः ।
तदात्मस्वभावस्थिते न हि मन्यते सोऽपि अज्ञानी ॥ भरहे दुस्समकाले भरहे-भरतक्षेत्रे भारतवर्षे, दुःषमे काले पंचमकाले कलिकालापरनाम्नि काले। धम्मज्झाणं हवेइ साहुस्स धर्मध्यानं भवति साधोदिगम्बरस्य मुनेः । तं अप्पसहावठिदे तद्धर्मध्यानं आत्मस्वभावस्थिते आत्मभावनातन्मये मुनौ भवति । ण हु मण्णइ सो वि अण्णाणी न मन्यते नाङ्गीकरोति सोऽपि पुमान् पापीयान् अज्ञानी जिनसूत्रबाह्यः ।
अन्ज वि तिरयणसुद्धा अप्पा झाएवि लहहि इंदत्तं । लोयंतियदेवत्तं तत्थ चुआ णिव्वुदि जंति ॥ ७७ ॥
अद्यापि त्रिरत्नशुद्धा आत्मानं ध्यात्वा लभन्ते इंद्रत्वम् ।
लौकान्तिकदेवत्वं ततः च्युत्वा निर्माण यान्ति ॥ अज वि तिरयणसुद्धा अद्यापि पंचमकालोत्पन्नाः समनस्काः पंचेन्द्रिया उत्तमकुलादिसामग्रीप्राप्ता वैराग्येण गृहीतदक्षिास्त्रिरत्नशुद्धाः सम्यक्त्वज्ञानचारित्रनिर्मला वर्तन्त एव, ये कथयन्ति महाव्रतिनो न विद्यन्त ते नास्तिका जिनसूत्रबाह्या ज्ञातव्याः । ते आसन्नभव्याः किं कुर्वन्ति !
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org