________________
षट्प्राभृते
। इति ।
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः सम्मत्तणाणरहिओ अभव्वजीवो हु मोक्खपरिमुको । संसारसुहे सुरदो ण हु कालो भगइ झाणस्स ॥ ७४ ॥
सम्यक्त्वज्ञानरहितः अभव्यजीवो हि मोक्षपरिमुक्तः संसारसुखे सुरतः न हि कालो भणति ध्यानस्य ॥
३५८
सम्मत्तणाणरहिओ सम्यक्त्वरहितो मिथ्यादृष्टिः, ज्ञानरहितोऽज्ञानो मूढजीवो बहिरात्मा | अभव्वजीवो हु मोक्खपरिमुक्को अभव्यजीवो रत्नत्रयस्यायोग्यो लौकादिको मोक्षपरिमुक्तः तस्य कदाचिदपि कर्मक्षयो न भविष्यति स न सेत्स्यति कंकटूकमुद्भवत् । संसारसु सुरदो संसारसुखे वनितायोनिमधनसुखे, सुरतः सुष्ठु अतिशयेन रतः तत्परः । ण हु कालो भइ झाणस्स एवं दोषदुष्टो भणति ब्रूते, किं भणति ? ध्यानस्य कालो न भवति । कथं ? हु-स्फुटं ।
पंचसु महव्वदेसु य पंचसु समिदीस तीस गुत्तीसु । जो मूढो अण्णाणी ण हु कालो भगड़ झाणस्स ॥ ७५ ॥
पञ्च महाव्रतेषु च पञ्चसु समितिषु तिसृषु गुप्तिषु । यो मूढः अज्ञानी न हि कालो भगति ध्यानस्य ॥
पंचसु महव्वदेसु य पंचसु महात्रतेषु च प्राणातिपातमृषावादस्तैयमैथुनपरिग्रहसर्वथा परित्यागो महाव्रतमुच्यते एतेषु पंचसु महाव्रतेषु यो मूढश्चारित्रमोहबलवत्तरः । चकारादणुव्रतानामपि अप्रतिपालको रात्रिभो - जननियमरहितः चर्मजलघृततैलरामठ स्वादनमठः । पंचसु समिदीस तीसु गुत्तीसुर्यासमितिः - करचतुष्टयं मार्गमवलोक्य गमनं, भाषासमिति :आगमाविरुद्ध भाषणं, एषणासमिति : - पूर्वोक्तषट्चत्वारिंशद्दोषरहिताहारग्रहणं, आदाननिक्षेपणासमितिः- ज्ञानोपकरणशौचोपकरणानां पूर्वं दृष्ट्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org