________________
मोक्षप्राभृतं ।
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः ॥ १ ॥ निंदाए य पसाए दुक्खे य सुहसु य । सत्तूणं चैव बंधूणं चारित्तं समभावदो ॥ ७२ ॥
निन्दायां च प्रशंसायां दुःखे च सुखेषु च । शत्रूणां चैव बन्धूनां चारित्रं समभावतः ॥
निंदाए य पसंसाए निन्दायां प्रशंसायां च समभावतश्चारित्रं भवतीति सम्बन्धः । दुक्खेय सुहए ये दुखे च सुखके च समागतेष्वित्युपस्कारः । सत्तूर्णं चेव बंधूणं शत्रूणां चैव बन्धूनां समायोगे इत्युपस्कारः । चारित्तं समभावदो समभावतः समतापरिणामे सति चारित्रं भवतीति निर्विकल्पसमाधिरूपं यथाख्यातं चारित्रं भवतीति भावार्थ: ।
३५७
चरियावरिया वदसमिदिवज्जिया सुद्धभावपब्भट्ठा । केई जंपंति णरा ण हु कालो झाणजोयस्स ॥ ७३ ॥ चर्यावरिका व्रतसमितिवर्जिता शुद्धभावप्रभ्रष्टाः ।
केचित् जल्पन्ति नराः न हि कालो ध्यानयोगस्य ॥
चरियावरिया चर्यायाश्चारित्रस्य आवरिका आवरणं येषां ते चर्याचरिकाः चारित्रमोहनीयकर्मयुक्ताः । वदसमिदिवज्जिया व्रतसमितिवर्जिता व्रतरहिता: समितिहीनाश्च । सुद्धभावपव्भट्ठा शुद्धभावप्रभ्रष्टा रागद्वेषमोहादिभिः परिणामै: कश्मलीकृता आत्मध्यानहीनाः । केई जंपति रा केचिद्वहिरात्मानो नराः पुरुषा जल्पन्ति ब्रुवन्ति । किं जल्पन्ति ? ण हु कालो झाणजोयस्स ध्यानयोगस्य अष्टाङ्गयोगमध्ये सप्तमो योगो ध्यानयोगस्तस्य कालोऽवसरो न वर्तते । कथं ? हि-स्फुटं । के ते अष्टाङ्गयोगाः -
१ च. टी. । २ न. टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org