________________
षट्प्राभृते
आत्मानं ध्यायतां दर्शनशुद्धीनां दृढचारित्राणाम् । भवति ध्रुवं निर्वाणं विषयेषु विरक्तचित्तानाम् ॥
"
अप्पा झायंताणं आत्मानं ध्यायतां मुनीनां । दंसणसुद्धीण दिढचरित्ताणं दर्शनस्य शुद्धिनैर्मल्यं चलमलिनत्व रहित सम्यक्त्वानां चर्मजलघृततैलभूतनाशनादिपरिहरतां शरीरमात्रदर्शनेन परगृहेषु कृतादिदोषरहिताशेनमश्नतां दर्शनशुद्धिमतां दृढ चरित्राणां ब्रह्मचर्य प्रत्याख्यानादिदृढचारित्राणां । होदि धुवं णिव्वाणं भवति ध्रुवमिति निश्चयेन निर्वाणं मोक्षो भवति । विसएसु विरत्तचित्ताणं विषयेषु इष्टवनितालिङ्गनादिषु विरक्त चित्तानां विषयान् विषं मन्यमानानामिति संक्षेपतोऽर्थो ज्ञातव्यो ज्ञानीयो ज्ञेय इति ।
जेण रागे परे दव्वे संसारस्य हि कारणं ।
तेणावि जोड़णो णिच्चं कुज्जा अप्पे सभावणा ॥ ७१ ॥ येन रागे परे द्रव्ये संसारस्य हि कारणम् ।
तेनापि योगी नित्यं कुर्य्यादात्मनि स्वभावनाम् ॥
३५६
जेण रागे परे दव्वे येन वनितादिना पर्यायेण, रागे सति राग उत्पद्यते, परकीये द्रव्ये आत्मनो भिन्ने वस्तुनि । संसारम्स हि कारणं स रागः कथंभूतः, संसारस्य भवभ्रमणस्य, हि निश्चयेन, कारणं हेतुः । तेणांवि न केवलं आत्मनि आत्मभावनां कुर्यात् किन्तु तेनापीष्ट वनितादिना । जोइणो योगी । नित्यं सर्वकालं । अप्पे आत्मनि । स्वभावनां - आत्मभावनां कुर्यात् । कथमिति चेत् ? इयमिष्टवनिता अनन्तकेवलज्ञानमयी वर्तते यथा ममात्मानन्त केवलज्ञानमयो वर्तते । इयमहं च द्वापि केवलज्ञानिनौ वर्तावहे । तेन इयमप्यात्मा ममेति को नाम पृथग्वर्तते येन सह स्नेहं करोमि । तथा चोपनिषद् -
१ रहितानशनमिति मूलटीकापाठः । २ तेनापि . टी. । ३ योगिनः टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org