SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३५५ एव गुणस्तपो गुणस्तेन युक्ताः । अथवा तपो द्वादशभेदं गुणा अष्टाविंशतिर्मूलगुणा उत्तरगुणाश्च बहुभेदास्तैर्युक्ताः संसारं त्यजन्ति अत्र सन्देहो नास्ति संशयो न कर्तव्यः । उक्तं च गौतमेन महर्षिणा --- वदंसमिदिदियरोधो लोचावस्सयमचेल मण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेगभत्तं च ॥ १ ॥ एदे खलु मूलगुणा समणाणं जिणवरेहि पण्णत्ता । एत्थ पमादकदादो अइचारादो नियत्तो हं ॥ २ ॥ परमाणुपमाणं वा परदव्वे रदि हवेदि मोहादो । सो मूढो अण्णाणी आदसहावस्स विवरीदो ॥६९॥ परमाणुप्रमाणं वा परद्रव्ये रतिर्भवति मोहात् । समूढोऽज्ञानी आत्मस्वभावाद्विपरीतः परमाणुपमाणं वा परमाणुप्रमाणं वा । परदव्वे रदि हवेदि मोहादो परद्रव्ये रतिर्भवति मोहादज्ञानात् परमाणुमात्रापि रतिर्मोहादज्ञानाद्भवति, किमुच्यते बव्ही रतिः ? महती रतिस्तु अज्ञानाद्भवत्येव । सो मूढो अण्णाणी यस्य परद्रव्ये यादिविषये रतिर्भवति स मुनिर्मूढः तस्यैव पर्यायोऽज्ञानीति । आदसहावस्स विवरीदो स मुनिरात्मस्वभावाद्विपरीतः परद्रव्यरत इत्युच्यते बहिरात्मा कथ्यत इति भावार्थ: । एवं ज्ञात्वा परमात्मानं परित्यज्य परद्रव्ये रतिर्न कर्तव्येति तात्पर्यार्थः । अप्पा झायंताणं दंसणसुद्धीण दिढचरित्ताणं । होदि धुवं णिव्वाणं विसऐसु विरत्तचित्ताणं ॥ ७० ॥ १ व्रतसमितीन्द्रियरोधाः लोचः आवश्यकमचेलमस्नानं । क्षितिशयनमदन्तमनं स्थितिभोजनमेकभक्तं च ॥ एते खलु मूलगुणा श्रमणानां जिनवरैः प्रणीताः । अत्र प्रमादकृतादतिचारान्निवृत्तोऽहं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy