________________
३५४
षट्प्राभूतेअप्पा णाऊण णरा आत्मानं ज्ञात्वा आत्मास्तीति सम्यग्विज्ञाय नरा बहिरात्मजीवाः । केई सब्भावभावपब्भहा केचित् सद्भावभावप्रभ्रष्टाः केचित् विवक्षिताः सन् समीचिनो भावः सद्भावः निजात्मभावना तस्मात्प्रभ्रष्टा निजशुद्धबुद्धैकस्वभावात्मभावनाप्रच्युता विषयसुखदुर्भावनासु रता इत्यर्थः । हिंडंति चाउरंग हिण्डन्ते परिभ्रमन्ति पर्यटनं कुर्वन्ति चाउरंग-चतुरंगे भवं चातुरंगं चतर्गतिसंसारसंसरणं यथा भवत्येवं । विसएसु विमोहिया मूढा विषयेषु पंचेन्द्रियार्थेषु स्पर्शरसगन्धवर्णशब्देषु विमोहिता लोभं गताः, ते च विषया अनादिकाले जीवेनास्वादिताः, आत्मोत्थस्वाधीनं सुखं कदाचिदपि न प्राप्ताः। तथा चोक्तं
अदृष्टं किं किमस्पृष्टं किमनाघ्रातमश्रुतं । किमनास्वादितं येन पुनर्नवमिवेक्ष्यते ॥१॥ भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः।
उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ॥२॥ विषयेषु विमोहिता ये ते मूढा अज्ञानिनो बहिरात्मान इत्यर्थः । तेन बहिरात्मभावं परित्यज्यात्मभावना कर्तव्या ।
जे पुण विसयविरत्ता अप्पा णाऊण भावणासहिया । छंडंति चाउरंग तवगुणजुत्ता ण संदेहो ॥ ६८ ॥
ये पुनः विषयविरक्ता आत्मानं ज्ञात्वा भावनासहिताः ।
त्यजन्त्रि चातुरङ्गं तपोगुणयुक्ता न सन्देहः ॥ जे पुण विसयविरत्ता ये पुनरासन्नभव्यजीवा विषयेभ्यो विरक्ताः पराङ्मुखा विषयेषूपन्नविषभावनाः । अप्पा पाऊण भावणासहिया आत्मानं ज्ञात्वा आत्मभावनासहिता भवन्ति । छंडंति चाउरंगं ते पुरुषास्त्यजन्ति, किं ? चातुरंगं संसारं । तवगुणजुत्ता ण संदेहो तप
१ चाउरंगे. टी. । २ न. टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org