________________
३५३
मोक्षप्राभृतं । दुःखेन ज्ञायते आत्मा आत्मानं ज्ञात्वा भावना दुःखम् ॥
भावितस्वभावपुरुषो विषयेषु विरज्यति दुःखम् ॥ दुक्खं णज्जइ अप्पा दुःखेन महता कष्टेन तावदात्मा ज्ञायते आत्मास्तीति बुद्धिरुत्पद्यते । अप्पा णाऊण भावणा दुक्खं यद्यात्मास्तीति ज्ञातं तदा तस्मिन्नात्मनि भावना वासनाऽहनिशचिन्तनं तद्गुणस्मरणादिकं दुःखं दुष्प्राप्यं भवति । भावियसहावपुरिसो विसएसु विरच्चए दुक्खं भावितस्वभावः पुरुष आत्मभावनासहितोऽपि सूरिः यद्विषयेषु वनिताजनस्तनजघनवदनलोचनादिविलोचने तद्वार्तालापगोष्ठीषु शरीरस्पर्शनादिसुखेषु विरज्यति तत्सुखं हालाहलविषास्वादनवजानाति तदतीव दुःखं दुष्करमिति तात्पर्यार्थः।
ताम ण णजइ अप्पा विसएसु णरो पवट्टए जाम । विसए विरत्तचित्तो जोई जाणेइ अप्पागं ॥६६॥
तावत् न ज्ञायते आत्मा विषयेषु नरः प्रवर्तते यावत् ।
विषये विरक्तचित्तः योगी जानाति आत्मानम् ॥ ताम ण णज्जइ अप्पा तावत्कालमात्मा न ज्ञायते । तावत्कियत् ! विसएसु णरो पवट्टए जाम यावत्कालं विषयेषु पूर्वोक्तलक्षणेषु नरो जीवः प्रवर्तते व्याप्रियते । विसए विरत्तचित्तो विषये पूर्वोक्तलक्षणे विरक्तचित्तो निवृत्तचेता यती। जोई जाणेइ अप्पाणं योगी ध्यानवान् पुमान् महामुनिरात्मानं जानाति प्रत्यक्षतया पक्ष्याते ।
अप्पा णाऊण णरा केई सब्भावभावपमहा। हिंडंति चाउरंगं विसएसु विमोहिया मूढा ॥ ६७ ॥
आत्मानं ज्ञात्वा नराः केचित्सद्भावभावप्रभ्रष्टाः । हिण्डन्ते चातुरङ्गं विषयेषु विमोहिता मूढाः ॥
१ न. टी.
पटू. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org