________________
३५२
षट्प्राभूते
आत्मा चारित्रवान् दर्शनज्ञानेन संयुत आत्मा ।
स ध्यातव्यो नित्यं ज्ञात्वा गुरुप्रसादेन ॥ अप्पा चरित्तवंतो आत्मा चारित्रवान् वर्तते आत्मात्मानमेवानुतिष्ठतीति कारणात् यस्य मुनेश्चारित्रे प्रीतिरस्ति स आत्मानमेवाश्रयत्विति भावार्थः । दसणणाणेण संजुदो अप्पा दर्शनेन ज्ञानेन च संयुतः संयुक्तः, कोऽसौ ? आत्मा जीवतत्वं, अत्रापि स एव भावार्थः–यस्य मुनेर्दर्शने प्रेम वर्तते ज्ञाने वानुरागोऽस्ति स मुनिरात्मानमेवाश्रयतु तद्द्वयमपि तत्रैव वर्तते यस्मात् । सो झायव्वो णिचं स आत्मा ध्यातव्यो नित्यं सर्वकालं । रत्नानां त्रयस्योपायभूतस्यात्मलाभे मोक्षलाभे वा प्रीतिमत इत्यर्थः । णाऊणं गुरुपसाएण गुरोनिग्रन्थाचार्यस्य शिक्षादीक्षाचारवाचनादेश्च कर्तुः प्रसादेन कारुण्येन । अयं वस्तुस्वभावो वर्तते यदाचार्यप्रसन्नतयात्मलाभो भवति तद्विराधने सत्यात्मा न स्फुटीभवति । तथा चोक्तं
गुणेषु दोषमनीषयान्धा
दोषान् गुणीकर्तुमथेशते ये । श्रोतुं कवीनां वचनं न तेऽर्हाः
___ सरस्वतीद्रोहिषु कोऽधिकारः॥१॥ अथवा गुरूणां पंचतयानां परमेष्ठिनां प्रसादादात्मा प्रभुर्लभ्यते । तेषां प्रसादं विना आत्मप्रभुर्न प्राप्यत इत्यर्थः । यथा राजानं द्रष्टुकामः कश्चित् पुमान् तत्सामन्तकादीन् पूर्व पश्यति ते तु राजानं मेलयन्ति, तानन्तरेण तत्र प्रवेष्टुमपि न लभ्यते इति कारणात् पूर्व पंचदेवताः प्रसादनीया आत्मलाभमिच्छता योगिनेति भावार्थः ।
दुक्खे णज्जइ अप्पा अप्पा णाऊण भावणा दुक्खं । भावियसहावपुरिसो विसएसु विरचए दुक्खं ॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org