SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३५१ बलं जोई तस्मात्कारणाद्यथाबलं निजशक्त्यनुसारेण योगी मुनिः । अप्पा दुक्खेहि भावए आत्मानं दुःखैरनेकतपःक्लेशैः भावयेद्वासयेत् दुःखाभ्यासं कुर्यादित्यर्थः । आहारासणणिदाजयं च काऊण जिणवरमएण । झायव्वो णियअप्पा णाऊणं गुरुपसाएण ॥ ६३ ॥ आहारासननिद्राजयं च कृत्वा जिनवरमतेन । ध्यातव्यो निजात्मा ज्ञात्वा गुरुप्रसादेन ॥ आहारासणणिदा जयं च काऊण जिणवरमएण आहारासननिद्राजयं च कृत्वा जिनवरमतेन, शनैः शनैः आहारोऽल्पः क्रियते । शनैः शनैरासनं पद्मासनं उद्भासनं चाभ्यस्यते । शनैः शनैः निद्रापि स्तोका स्तोका क्रियते एकस्मिन्नेव पार्श्वे पार्श्वपरिवर्तनं न क्रियते। एवं सति सर्वोऽप्याहारस्त्यक्तुं शक्यते। आसनं च कदाचिदपि त्यक्तुं (न) शक्यते। निद्रापि कदाचिदप्यकर्तुं शक्यते । अभ्यासात् किं न भवति ? तस्मादेवकारणात्केवलिभिः कदाचिदपि न भुज्यते । पद्मासन एव वर्षाणां सहखैरपि स्थीयते, निद्राजयेनाप्रमत्तैर्भूयते, स्वप्नो न दृश्यते । एवं जिनवरमतेन वृषभस्वामिवीरचन्द्रशासनेनानुशील्यते । झायव्वो णियअप्पा ध्यातव्यो निज आत्मा । णाऊणं गुरुपसाएण आत्मानमष्टाङ्गं च ज्ञात्वा गुरुप्रसादेन निग्रन्थाचार्यवर्यस्य कारुण्येन। गुरुप्रसादं विना "द्रष्टव्यो रेऽयमात्मा श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्य" इति ब्रुवदभिरपि वेदान्तवादिभिनिवृत्तैः केनापि जनेन याज्ञवल्क्यादिना न प्राप्त इति भावार्थः। अप्पा चरित्तवंतो दंसणणाणेण संजुदो अप्पा। सो झायव्वो णिच्चं णाऊणं गुरुपसाएण ॥ ६४ १ नि. टी.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy