________________
मोक्षप्राभृतं ।
मान्यं ज्ञानं तपोऽहीनं ज्ञानहीनं तपोऽहितं द्वाभ्यां युक्तः स देवः स्याद् द्विहीनो गणपूरणः ॥१॥ धुवसिद्धी तित्थयरो चउणाणजुदो करेइ तवयरणं । णाऊण धुवं कुज्जा तवयरणं णाणजुत्तो वि ॥ ६०॥
ध्रुवसिद्धिस्तीर्थंकरः चतुष्कज्ञानयुतः करोति तपश्चरणम् । ___ ज्ञात्वा ध्रुवं कुर्यात् तपश्चरणं ज्ञानयुक्तोपि ॥ धुवसिद्धी तित्थयरो ध्रुवसिद्भिरवश्यं मोक्षगामी, कोऽसौ ? तीर्थकरः तीर्थकरपरमदेवः । चउणाणजुदो करेइ तवयरणं दीक्षानन्तरमेवोत्पनमनःपर्ययज्ञानः नथापि तपश्चरणं त्रिरात्रादिकं तपश्चरणं करोति । णाऊण धुवं कुज्जा तवयरणं णाणजुत्तो वि इति ज्ञात्वा, ध्रुवमिति निश्चयेन, कुर्याद्विदध्यात् , किं तत् ? तपश्चरणं ज्ञानयुक्तोऽपि । अहं सकलशास्त्रप्रवीणः किं ममोपवासादिना तपश्चरणेनेति न वाच्यमिति भावः । उक्तं च
उवासहो एक्कहो फलेण संबोहियपरिवारु । णायदत्तु दिवि देव हुउ पुणरवि णायकुमारु ॥१॥ ते कारणि जिय पइंभणमि करि उववासुब्भासु।। जाम्ब ण देहकुडिल्लयहि दुक्कइ मरणहु यासु ॥२॥ यदज्ञानेन जीवेन कृतं पापं सुदारुणं । उपवासेन तत्सर्व दहत्यग्निरिवेन्धनं ॥१॥ तथा चोक्तं प्रभाचन्द्रेण तार्किकलोकशिरोमणिनाउपवासफलेन भजति नरा भुवनत्रयजातमहाविभवान् । खलु कर्ममलप्रलयाचिराद्जरामरकेवलसिद्धिसुखं ॥१॥ १ उपवासस्य एकस्य फलेन संबोधितपरिवारः ।
नागदत्तः दिवि देवो जातः पुनरपि नागकुमारः ॥ २ तेन कारणेन जीव ! प्रभणामि कुरु उपवासाभ्यासं । यावन्न देहकुड्यां ढोकते मरणं यत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org