________________
पद्माभृते -
अच्णं पि चेदा जो मण्णइ सो हवेइ अण्णाणी चेतयितारमात्मानं यः पुमान कापि मतानुसारी अचेतनमात्मानं मन्यते स पुमान् अज्ञानी ज्ञानवर्जितो मूर्खो भवेत् । सो पुण णाणी भणिओ स पुमान् पुनर्ज्ञानी भणितः । स कः ? जो मण्णइ चेयणे वेदा यः पुमान् चेतने चेतनद्रव्ये चेतयितारमात्मानं मन्यते । उक्तं च
३४८
स यदा दुःखत्रयोपतप्तचेतास्तद्विघात कहेतुजिज्ञासोत्सेकितविवेकस्रोताः स्फाटिकाश्मानमिवानन्दात्मानमप्यात्मानं सुखदुःखमोहावह परिवर्तैर्मह दहंकारविवर्तैश्च कलुषयन्त्याः सत्वरजः साम्यावस्थापरनामवत्याः सनातनव्यापिगुणाधिकृतेः प्रकृतेः स्वरूपमवगच्छति तदायोमय गोलकानलतुल्यवर्गस्य बोधवद्बहुधानकसंसर्गस्य सति विसर्गे सकलज्ञानज्ञेयसम्बन्धवैकल्यं कैवल्यमवलम्बते तदा दृष्टुः स्वरूपेऽवस्थानं मुक्तिरिति कापिलाः विवदन्तः प्रतिवक्तव्याःकपिलो यदि वांछा वित्तिमचिति सुरगुरुगीगुंफेष्वेष पतति । चैतन्यं बाह्यग्राह्यरहितमुपयोगि कस्य वदं तत्र विदित ! ॥ १ ॥ तवरहियं जं गाणं णाणविजुत्तो तबो वि अकयत्थो । तम्हा णाणतवेणं संजुत्तो लहइ णिव्वाणं ॥ ५९ ॥ तपोरहितं यत् ज्ञानं ज्ञानवियुक्तं तपोऽपि अकृतार्थं । तस्मात् ज्ञानतपसा संयुक्तः लभते निर्वाणम् ॥
तवरहियं जं गाणं तपोरहितं यज्ज्ञानं तदकृतार्थमिति सम्बन्धः । णाणविजुत्तो तवो वि अकयत्थो ज्ञानवियुक्तं ज्ञानरहितं अज्ञानं तपोऽपि अकृतार्थे मोक्षं न साधयति । तह्मा णाणतवेणं संजुत्तो लहइ णिव्वाणं तस्मात्कारणात् ज्ञानतपसा ज्ञानं च तपश्च ज्ञानतपः समाहारो द्वन्द्वस्तेन ज्ञानतपसा । अथवा ज्ञानेनोपलक्षितं तपो ज्ञानतपस्तेन तथोक्तेन संयुक्तो मुनिर्लभते निर्वाणं सर्वकर्मक्षयलक्षणं मोक्षमित्यर्थः । तथा चोक्तं
१ वंदत तत्र इति. ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org