________________
narvavran
मोक्षप्राभृतं ।
३४७. इत्येवं स्वभावज्ञानस्य दूषणकरो भवति, अतीन्द्रियज्ञानं न मन्यते । खंडदूसयरो-खण्डज्ञानेन दूषणकरः कश्चिन्मिथ्यादृष्टिः । सो तेण दु अण्णाणी स पुमान् तेन तु दूषणदानेन अज्ञानी ज्ञातव्यो ज्ञानीयो ज्ञेयो वेदितव्य इति यावत् । स कथंभूतः, जिणसासणदूसगो भणिदो जिनशासनस्यार्हतमतस्य दूषको दोषभाषको भणित:-स नरकदुखं प्राप्स्यति । तथा चोक्तं पुष्पदन्तेन महाकविना काव्यपिशाचखण्डकव्यपरनामद्वयेन
लेव्वण्हु अणिदिओ णाणमउ जो मइमूद न पत्तियइ। सो णिदिउ पंचिंदियणिरउ वैतरणिहिं पाणिउ पियइ ॥१॥ णाणं चरित्तहीणं दंसणहीणं तवेहि संजुत्तं ।। अण्णेसु भावरहियं लिंगग्गहणेण किं सोक्खं ॥ ५७ ॥
ज्ञानं चारित्रहीनं दर्शनहीनं तपोभिः संयुक्तम् ।
अन्येषु भावरहितं लिङ्गग्रहणेन किं सौख्यम् ॥ णाणं चरित्तहीणं ज्ञानं चरित्रहीनं सौख्यकरं न भवतीति सम्बन्धः। दसणहीणं तवेहि संजुत्तं दर्शनहींनं सम्यग्दर्शनरत्नरहितं तपोभिः संयुक्तं कर्म सौख्यकरं न भवतीति सम्बन्धः । अण्णेसु भावरहियं अन्येषु षडावश्यकादिषु भावरहितं कर्म । लिंगग्गहणेण किं सोक्खं लिंगग्रहणेन वेषमात्रेण आत्मभावनारहितेन कर्मणा किं सौख्यं भवतिअपि तु सर्वकर्मक्षयलक्षणं मोक्षसुख न भवतीति भावार्थः।
अच्चेयण पि चेदा जो मण्णइ सो हवेइ अण्णाणी । सो पुण णाणी भणिओ जो मण्णइ चेयणे चेदा ॥५८॥
अचेतनमपि चेतयितारं यो मन्यते स भवति अज्ञानी।
स पुन ज्ञानी भणितः यो मन्यते चेतने चेतयितारम् ।। १ अस्य छाया पूर्व ३०७ पृष्ठे गता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org