________________
३४६
षट्प्राभतेइत्यादिसुदतीचिन्तनेनाज्ञानी मूढः कथ्यते । णाणी एत्तो दु विवरीदो ज्ञानी निर्मोहो मुनिः एतस्मादुक्तलक्षणात् साधोविपरीतः शुभवस्तुयोगे सति रागं न करोतीति तात्पर्यार्थः ।
आसवहेदू य तहा भावं मोक्खस्स कारणं हवदि। सो तेण दु अण्णाणी आदसहावस्स विवरीदो ॥५५॥
आस्रवहेतुश्च तथा भावो मोक्षस्य कारणं भवति । ___ स तेन तु अज्ञानी आत्मस्वभावात् विपरीतः ॥ आसवहेद् य तहा आस्रवहेतुश्च तथा यथेष्टवनितादिविषये राग आस्रवहेतुर्भवति तथा निर्विकल्पसमाधि विना मोक्षस्यापि रागः कर्मास्रवतुर्भवति । सो तेण दु अण्णाणी स साधुर्मोक्षेऽपि रागभावं कुर्वाणः तेन कारणेन पुण्यकर्मबन्धहेतुत्वादज्ञानी भवति-मूढः स्यात् आदसहावस्स विवरीदो आत्मस्वभावानिर्विकल्पसमाधिलक्षणात्मध्यानरूपाद्विपरीतः । तथा चोक्तमेकत्वसप्तत्यां
स्पृहा मोक्षेऽपि मोहोत्था तनिषेधाय जायते । अन्यस्मै तत्कथं शान्ताः स्पृहयन्ति मुमुक्षवः ॥१॥ जो कम्मजादमइओ सहावणाणस्स खंडदूसयरो। सो तेण दु अण्णाणी जिणसासणदूसगो भणिदो ॥५६॥
यः कर्मजातमतिकः स्वभावज्ञानस्य खण्डदूषणकरः ।
स तेन तु अज्ञानी जिनशासनदूषको भणितः ॥ जो कम्मजादमइओ यः पुमान् कर्मजातमतिक इन्द्रियानिन्द्रियाणि खलु कर्मजातानि तदुत्पन्नमतिलेशसंयुक्तः । सहावणाणस्स खंडदूसयरो स्वभावज्ञानस्यात्मोत्थज्ञानस्य केवलज्ञानस्य दूसयरो-दोषदायकः । आत्मनः खल्वतीन्द्रियज्ञानं नास्ति चक्षुरादीन्द्रियजनितमेव ज्ञानं वर्तते
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org