SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३४५ सुभजोगेण सुभावं परदव्वे कुणइ रागदो साहू । सो तेण दु अण्णाणी गाणी एत्तो दु विवरीदो ॥५४॥ शुभयोगेन सुभावं परद्रव्ये करोति रागतः साधुः । स तेन तु अज्ञानी ज्ञानी एतस्माद्विपरीतः ॥ सुभजोगेण सुभावं शुभस्य मनोज्ञपदार्थस्येष्टवनितादेः योगेन संयोगेन मेलनेनोपढौकनेनाग्रत आगतेन सुभा-शोभनं प्रीतिलक्षणं भावं परिणामं । परदव्वे कुणइ रागदो साहू परद्रव्ये आत्मनो भिन्ने वस्तुनि इष्टवनितादौ, करोति विदधाति सुभावमिति सम्बन्धः, रागतः प्रेमपरिणामात् । कः कर्ता, साधुर्वेषधारी मुनिः पुष्पदन्तवत् । तथा चोक्तं अलकवलयरम्यं भूलतानर्तकान्तं नवनयनविलासं चारुगण्डस्थलं च। मधुरवचनगर्भ स्मेरबिम्बाधरायाः पुरत इव समास्ते तन्मुखं मे प्रियायाः ॥१॥ कर्णावतंसमुखमण्डनकण्ठभूषा वक्षोजपत्रजघनाभरणानि रागात् । पादेष्वलक्तकरसेन च चर्चनानि कुर्वन्ति ये प्रणयिनीषु त एव धन्याः ॥२॥ लीलाविलासविलसन्नयनोत्पलायाः स्फारस्मरोत्तरलिताधरपल्लवायाः। उत्तुंगपीवरपयोधरमंडलाया स्तस्या मया सह कदा ननु संगम: स्यात् ॥३॥ किंचचित्रालेखनकर्मभिर्मनसिजव्यापारसारास्मृतै र्गाढाभ्यासपुरःस्थितप्रियतमापादप्रणामक्रमैः । स्वप्ने संगमविप्रयोगविषयप्रीत्यमोदागमैरित्थं वेषमुनिर्दिनानि गमयत्युत्कंठितः कानने ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy