SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४४ षट्प्राभृते अन्यच्च-- स्वयूथ्यान् प्रति सद्भावसनाथापेतकैतवा। प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥२॥ उग्गतवेणण्णाणी जं कम्मं खवदि भवहि बहुएहि । तं पाणी तिहिं गुत्तो खवेइ अंतोमुहुत्तेण ॥ ५३ ।। उग्रतपसाऽज्ञानी यत्कर्म क्षपते भवैर्बहुकैः । __ तज्ज्ञानी त्रिभिर्गुप्तः क्षपयति अन्तर्मुहूर्तेन ॥ उग्गतवेण उग्रतपसा तीव्रतपसा कृत्वा । अण्णाणी अज्ञानो मुनिः आत्मभावनाविवर्जितस्तपस्वी । जं कम्मं खवदि भवहि बहुएहि यत्कर्म पापकर्म क्षिपते भवैर्बहुकैः कोटिभवैः शतकोटिभवैः सहस्रकोटिभवैः लक्षकोटिभवैः कोटिकोटिभवैश्चेत्यादिभिः । तं णाणी तिहिं गुत्तो तत्कर्म ज्ञानी आत्मभावनापरः सूरिः तिहिं गुत्तो-त्रिभिर्गुप्तो मनोवचनकायगुप्तिसहितः । खवेई अंतोमुहुत्तेण क्षपयति क्षयमानयति, कियति काले ? अन्तर्मुहूर्तेन । कोऽसावन्तर्मुहूर्त इति चेत् ? आंवलि असंखसमया संखेजावलिहि होइ उस्सासो। सत्तुस्सासो थोओ सत्तत्थोओ लवो भणिओ ॥१॥ अदृत्तीसद्धलवा नाली दो नालिया मुहुत्तं तु। समऊणं तं भिण्णं अंतमुहुत्तं अणेयविहं ॥२॥ इति गाथाद्वयकथितक्रमेण आवल्या उपरि एकः समयोऽधिको भवति सोऽन्तर्मुहूर्तो जघन्यः कथ्यते । एवं व्यादिसमयवृद्धया समयद्वयहीनोऽन्तर्मुहूर्त उत्कृष्टः कथ्यते । मध्येऽसंख्यातभेदा अन्तर्मुहूर्तस्य ज्ञातव्याः । तेषु कस्मिंश्चिदन्तर्मुहूर्ते ज्ञानी कर्म क्षपयति । एकेन समयेन हीनो मुहूर्तो भिन्नमुहूर्त उच्यते इति भावः । __ १ दि. टी. । २ अनयोछाया पूर्व चत्वारिंशत्तमे पृष्ठे आगता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy