SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभृतं । ३४३ जह फहिमणि विसुद्ध परदव्वजुदो हवेइ अण्णं सो । तह रागादिविजुत्तो जीवो हवदि हु अणण्णविहो ॥५१॥ यथा स्फटिकमणिः विशुद्धः परद्रव्ययुतो भवति अन्यः सः । तथा रागादिवियुक्तः जीवो भवति स्फुटमन्योन्यविधः ॥ जह फलिहमणि विसुद्धो यथा येन प्रकारेण स्फटिकमणिः स्वभावेन विशुद्धो निर्मल वर्तते । परदव्वजुदो हवे अण्णं सो परद्रव्येण जपापुष्पादिना युतः, अण्णं - अन्योऽन्यादृशो भवति । तह रागादि - विजुत्तो तथा तेनैव स्फटिकमणिप्रकारेण रागादिभिर्विशेषेण युक्तः स्त्र्यादिरागयुतो रागादिमान् भवति । जीवो हवदि ह अणण्णविहो जीव आत्मा भवति हु-स्फुटं अन्योन्यविधोऽपरापरप्रकारो भवति - स्त्रीभियोगे रागवान् भवति शत्रुभिर्योगे द्वेषवान् भवति पुत्रादिभिर्योगे मोहवान् भवतीति तात्पर्यार्थः । 2 देव गुरुम्मिय भत्तो साहम्मि य संजदेसु अणुरत्तो । सम्मत्तमुव्वहंतो झाणरओ होइ जोई सो ॥ ५२ ॥ देवे गुरौ च भक्तः साधर्मिके च संयतेषु अनुरक्तः । सम्यक्त्वमुद्वहन् ध्यानरतः भवति योगी सः ॥ देव गुरुम्मिय भत्तो देवे गुरौ च भक्तो विनयपरः | साहम्मिय संजदे अणुरतो साधर्मिकेषु समानधर्मेषु जैनेषु, संयतेषु महामुनिषु, अनुरक्तोऽकृत्रिमस्नेहवान् वात्सल्यपरः । सम्मत्तमुव्वहंतो सम्यक्त्वं सम्यग्दर्शनमुद्वहन् मूर्धनि स्थापयन् । झाणरओ होइ जोई सो एवं विशेपणत्रयविशिष्टो योगी अष्टाङ्गयोगनिपुणो मुनिर्ध्यानरतो भवति ध्यानानुरागी भवति सः । विपरीतस्य ध्यानं न रोचत इत्यर्थः । तथा चोक्तंसर्वपापात्रवे क्षीणे ध्याने भवति भावना | पापोहतवृत्तीनां ध्यानवार्तापि दुर्लभा ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy