________________
३४२
षट्प्राभृते
होऊण दिढचरित्तो दृढचरित्रोऽचलितचारित्रो भूत्वा । दिढसम्मत्तेण भावियमईओ दृढसम्यक्त्वेन चलमलिनतारहितसम्यग्दर्श नेन भावितमतिस्तु वासितमनाः । झायंतो अप्पाणं ज्ञानबलेन ध्यायनात्मानं । परमपयं पावए जोई परमपदं केवलज्ञानं निर्वाणं च प्राप्नोति, योगी भेदज्ञानवान् मुनिः ।
चरणं व धम्मो धम्मो सो हवइ अप्पसमभावो । सो गरोसरहिओ जीवस्स अणण्णपरिणामो ॥ ५० ॥ चरणं भवति स्वधर्मः धर्मः स भवति आत्मसमभावः । स रागरोषरहितः जीवस्य अनन्यपरिणामः ॥
चरणं हवs सधम्मो चरणं चारित्रं भवति स्वधर्म आत्मस्वरूपं । धम्मो सो हव अप्पसमभावो धर्मो भवति, कोऽसौ ? स एव यः स्वधर्म आत्मस्वरूपं, स धर्मः कथंभूतः ? अप्पसमभावो आत्मसमभाव आत्मसु सर्वजीवेषु समभावः समतापरिणामः, यादृशो मोक्षस्थाने सिद्धो वर्तते तादृश एव ममात्मा शुद्धबुद्वैकस्वभावः सिद्धपरमेश्वरसमानः यादृशोऽहं केवलज्ञानस्वभावस्तादृश एव सर्वोऽपि जीवराशिरत्र भेदो न कर्तव्यः । सो रागरोसरहिओ जीवस अणण्णपरिणामो से आत्मसमभावः कथंभूतस्तस्य लक्षणं निरूपयन्ति भगवन्तः - स आत्मसमभावो रागरोषरहितो भवति यं प्रति प्रीतिलक्षणं रागं करोमि सोऽप्यहमेव, यं प्रति अप्रीतिलक्षणं द्वेषं करोमि सोऽप्यहमेव तेन रागरोषरहितो जीवस्यात्मनोऽनन्यपरिणाम एकलोलीभावः समत्वमेव परमचारित्रं ज्ञातव्यमिति । तथा चोक्तं
जीवां जिणवर जो मुणइ जिणवर जीव मुणेइ । सो समभावपरिट्ठियओ लहु णिव्वाणु लहेइ ॥ १ ॥
१. टी.
२ जीवान् जिनवरं यो जानाति जिनवरं जीवं जानाति । स समभावपरिस्थितः लघु निर्वाणं लभते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org