SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ मोक्षप्राभतं । ३४१ रोचते । रुचधातोः प्रयोगे चतुर्थी प्रोक्ता “ यस्मै दित्सा रोचते धारयते वा तत्संप्रदानं" इति वचनात् संप्रदाने चतुर्थी तदयुक्तं, कस्मादिति चेत् ? यदा रोचते तदा संप्रदानं यदा तु न रोचते तदा षष्ठीप्रयोग एव । स्वप्नेऽपि न रोचते पुनर्जीवस्येति सम्बन्धः । जीवा अच्छंति भवगहणे येन कारणेन जिनमुद्रा न रोचते भावचारित्रं भावचारित्रमिति लौंकादिभिरानेड्यते तेनैव कारणेन जीवास्तिष्टन्ति भवगहने संसारवने । रुद्रादिवन्द्रष्टजिनमुद्रा नरकादौ पतन्ति । परमप्पय झायंतो जोई मुच्चेइ मलदलोहेण । णादियदि णवं कम्मं णिदिदं जिणवरिंदेहिं ॥४८॥ . परमात्मानं ध्यायन् योगी मुच्यते मलदलोभेन । नाद्रियते नवं कर्म निर्दिष्टं जिनवरेन्द्रः ॥ परमप्पय झायंतो परमात्मानं निजात्मस्वरूपं ध्यायन् । जोई मुच्चेइ मलदलोहेण योगी ध्यानवान् मुनिर्मुच्यते परिहियते, केन ? मलदलोभेन मलं पापं ददातीति मलदः स चासौ लोभो धनाकांक्षा तेन मलदलोभेन । णादियदि णवं कम्मं लोभरहितो मुनि द्रियते न बध्नाति, नवं कर्म अभिनवं पापं, पूर्वोपार्जितं तु स्वयमेव क्षीयते । णिदिदं जिणवरिंदेहिं निर्दिष्टं कथितं, जिनवरेन्द्रैः* जिनवरा एव इन्द्रास्त्रिभुवनप्रभवस्तैर्जिनवरेन्द्रैः* सर्वज्ञवीतरागैरिति शेषः।। होऊण दिढचरित्तो दिढसम्मत्तेण भावियमईओ। झायंतो अप्पाणं परमपयं पावए जोई ।। ४९ ॥ भूत्वा दृढचरित्रः दृढसम्यक्त्वेन भावितमतिः । ध्यायनात्मानं परमपदं प्राप्नोति योगी ॥ * एतच्चिन्हमध्यगतः पाठः ख. पुस्तके नास्ति । १ जिनेन्द्रः इति मूलटीकापाठः मूलपदानुसारेण प्रवर्तितः। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy