SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूते विद्याधरस्तव नगरे विद्यानामक्षमापणं कुर्वाणो मारितस्तेनोपसर्गो वर्तते। तर्हि स्वामिन् ! उपसर्गविनाशः कथं भविष्यति ? तलिंगं छित्वा उमोपस्थे स्थापयित्वा यदि पूजयन्ति भवंतस्तदा विद्या उपशाम्यन्ति। उत्पात उपशाम्यतीति तछत्वा विश्वसेनस्तत्र गत्वा सर्वोऽपि जनपदो व्याहृतः । इष्टकाभिरुच्चां मंचिकां कृत्वा तल्लिंगं छित्वा तदुपरि धृत्वा तलिंगोपरि सुरतसुखक्षोणिं तदुपरि धृत्वा तन्मध्ये ऊर्ध्वमाण शिवलिंगं स्थापयित्वा जलेन प्रक्षाल्य परिमलबहुलेन चन्दनेन विलिप्य पुष्पाक्षतादिभिर्लोकै राजाज्ञया पूजयित्वा तदिन्द्रिययोर्नमस्कारः कृतः तदा विद्याभिः क्षमा कृता, लोकस्योपसर्गस्य विनाशो जातः । तद्दिनमारभ्य प्रहतलज लोकस्येश्वरं लिंगं पूज्यं जातमित्यज्ञानिभिर्लोकः श्रीमद्भगवदर्हत्परमेश्वरं परित्यज्य स एव देवः परमात्मीकृतः। इति मोक्षप्राभते रुद्रोत्पत्युपाख्यानं जिनमुद्रापरिभ्रष्टत्वसूचकं समाप्तम् । जिणमुदं सिद्धिसुहं हवेइ नियमेण जिणवरुदिहा। सिविणे वि ण रुच्चइ पुण जीवा अच्छंति भवगृहणे ॥४७॥ जिनमुद्रा सिद्धसुखं भवति नियमेन जिनवरोद्दिष्टा । स्वप्नेपि न रोचते पुनः जीवा तिष्ठन्ति भवगहने ॥ जिणमुई सिद्धिसुहं जिनमुद्रा सिद्धिसुखं आत्मोपलब्धिलक्षणमुक्तिसुख-सिद्धिसुखयोगाजिनमुद्रैव सिद्धिसुखमुपचर्यते । हवेइ भवति । नियमेण जिणवरुद्दिट्टा नियमेन निश्चयेन, कथंभूता जिनमुद्रा ? जिनवरोद्दिष्टा केवलिप्रतिपादिता । तल्लक्षणं पूर्वमेवोक्तं वर्तते । सिविणे वि ण रुच्चइ पुण सा जिनमुद्रा जीवस्य स्वप्नेऽपि निद्रायामपि न १न. टी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy