________________
मोक्षप्राभृतं।
३३९ विभवस्यार्धमाननेनार्धासनस्याङ्गीकरणेन च तस्य भार्या पुनर्भूर्जाता । भूतेशस्तु तस्या मुखविशप्रसूनं निरीक्षमाणोऽहर्निशं तिष्ठति । सरित्सु सीतासीतोदादिषु सरस्सु पद्मादिषु गिरिषु मेर्वादिषु लवणोदादिषु ससुद्रेषु देवारण्यादिषु च वनेषु सर्वमंगलया तया सार्धमनुदिनं रममाण उर्वरायां पर्यटति । स जटामुकुटविभूपितो वृषारूढो भस्मोद्धूलितो लोकानेवं वदति-अहं त्रिजगत्स्वामी, कर्ता, हर्ता, शिवः, स्वयंभूः, शंभुः, ईश्वरः, हरः, शंकरः, सिद्धः, बुद्धः त्रिपुरारिः, त्रिलोचनः, प्रकृतिशुद्धः, सर्वज्ञः, उमापतिः, भवः, ईशः, ईशानः, मृडः, मृत्युञ्जयः, श्रीकण्ठः, वामदेवः, महादेवः व्योमकेश इत्यादीनि मम नामानि । अहमेव वर्तेऽपरो नास्ति । मायावी विजयाधै बहूनि दिनान्युषित्वा जनमनांसि मंत्रै रंजयित्वात्र भरतक्षेत्रमागत्य तेन शैवशास्त्रं. प्रकटीकृतं । तद्दीक्षिताः शैवाचार्या बहवो बभूवुः । दर्शितगुणा गणाः प्रभूता मिलिताः, तैः परिवृतोऽस्खलितप्रतापोऽनवरतमुमाप्रेमानुरागो द्वादश वर्षाणि विषयसौख्यं भुंजानो मह्यां हतविपक्षो भ्रमितः। तत्प्रतापं दृष्ट्वा सर्वेऽपि विद्याधरा अतिभीताः । तैर्विचारितं एष महाविद्याबलीयानस्मान् मारयित्वा उभये अपि श्रेण्यो निश्चितं ग्रहीष्यति । केनोपायेनायं खलो हन्यते यावन्न हन्तीति । लोकं चिन्ताकुलं दृष्ट्वा मात्रा गिरिकर्णिकानाम्न्या निजसुतोमा भेदं पृष्टापुत्रि उमे! मम जामातुर्विद्याः कदाचिदपि अवशा भवन्ति न वेति, उमा प्राह-मातगिरिकर्णिके ! यदायं मया सह सुरतसुखमनुभवति तदा सुरतकाले विद्या अस्य न स्फुरन्ति । इत्युपदेशं लब्धा । गन्धारदेशे दुरंडनगरे वनप्रदेशे सुरतमारुढः, तैर्विद्याधरैः कान्तासहितस्य शिरश्चिच्छिदे। तस्मिन् हते तद्विद्याभिर्देश उपद्रूयोद्वासितः । गृहे गृहे कृतचौरः प्रविष्टः जीवधनं मुष्णाति । तन्नगरस्य राज्ञा विश्वसेनेन नन्दिषेणो मुनिः पृष्टः । भगवन् ! मरकोपसर्गस्य कः प्रत्ययः । मुनिरुवाच। रुद्रनामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org