________________
३३८
षट्प्राभृते
तस्य मत्स्यबन्धस्य शीतलशरीरस्पर्शेन सा आप्यायिता । तया विषयाशया कर्मवशेन निदानं कृतं - अन्यस्मिन् भवे प्रकटितपरमस्नेहोऽयं मम भर्ता भविष्यतीति । ईदृशं निदानं कृत्वा कार्यं विमुच्य सौधर्मेन्द्रस्य देवी जाता । कैवर्तस्तु संसारे भ्रमित्वा मिथ्यातपः कृत्वा ज्येष्ठासुतो जात: । अथ सावस्तिपुरे राजा वासवः । तन्महादेवी मित्रवती । तया विद्युन्मती नाम्नी कन्या जनिता । तडिद्दंष्ट्रस्य विद्याधरस्य सा दत्ता । सौधर्मेन्द्रदेवी च्युत्वा विद्युन्मती गर्भे स्थिता | नवमे मासे कष्टेन जनिता । विद्युन्मती विद्याधरी पीडावशेन निर्विन्ना (ण्णा ) सती सौवस्तिनगरे पर्वतगुहायां त्याजिता । तत्र गुहायां चतस्रो द्विजपुत्र्यः क्रीडितुं कन्यापुण्येनागताः । उमा उमा इति शब्देन रटन्ती ताभिर्दृष्टा | उमेति नाम कृत्वा सा कोमलाङ्गी करुणया गृहमानीता । ब्राह्मणपुत्रीभिश्चतसृभि सा कन्या राजकुले विद्युन्मत्या महादेव्या वासवनुपपत्न्याः [सा बालिका ] दर्शिता । तयापि गृहीत्वा पुत्र्यः पुत्री निजधात्र्याः पंडितायाः पालयितुं दत्ता। अथाष्टचन्द्रनृपेषु प्रधान ईंद्रसेनाभिधानो गगनाङ्गणे संचोदितविमान एकस्मिन् दिने साँवस्तिमागतः । तस्य कुलस्त्रियाः निजभगिन्या अपत्यरहिताया: सन्मानपूर्वकं मित्रवत्या वासवनृपभार्यया गिरिकर्णिकानाम्न्याः सा उमा दत्ता । तयापि प्रतिपाल्य नवयौवना कृता । सा सुन्दरी सुरकूटपुरेशविद्याधरेशतडिद्वेगस्य परिणायिता । सा मदोन्मत्ता सुष्ठु सुरतानुरागा यदा सुरतसुखमनुभवति तदा तडिद्वेगो मृतः । उमा तु यौवनमदेन स्वच्छन्दा जाता । विश्वस्तोमा देवदारुनगरे एकस्मिन् दिने गता । देवदारुणा तच्चारं ज्ञात्वा रतिगुणाधिका सा स्थाणोर्विद्या.
१ स्रा. ख. । २ स्रा. ख. । स्वा. क. । पूर्वपाठानुसारेण ( सा ) प्रवर्तितः । ३ पुत्र्याः । ४ विद्युन्मत्याः । ५ उमा । ६ च. ख. । ७ स्रा. ख., स्वा क. । अयोध्यां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org