________________
waman..rina
मोक्षप्राभृतं ।
३३७ वयं स्वच्छन्दचारिण्यो न वर्तामहे । अस्मन्मातरपितरौ जानीतः। स्वच्छन्दचारिणीनां विद्यामाहात्म्यं कुतः । ततो वस्त्राभरणानि दत्वा शिपिविष्टः प्राह । निजमातरपितृगणं पृष्ट्वा मम उत्तरं दत्त यूयं । ताभिर्गृहं गत्वा पितुरले वार्ता कृता। पित्रा तु एकः कंचुकी संदेशहरो हरं प्रेषितः । स गत्वा मुनिमुवाच । स्वामिन् ! अस्मत्स्वाम्येवं भणति । यदि मेघनिबद्धं पत्तनं गत्वा मेघनृपं तथा मेघनादं च दायिनं निर्धाट्य त्रिकहर्षदायि त्रिपुरं पुरं प्रवेशयास मां तदा जनमनोमोहनकारिणीमम सुता अष्टा अपि ददामि । कपर्दिना ओमिति भणिते कंचुकिना चागत्य राज्ञे तथा कथिते खचराधिपो हर्ष चकार । सुहृत्सुजनवर्गेण सर्वेण तत्र गत्वा शर्व स्वमन्दिरमानिनाय । तत्रोपवेश्येश्वरमादितो वृत्तान्तं जगाद यथा दायिना राज्यमपहृतं । ईशान उवाच । राजन् ! यत्त्वं भणसि तदहं साधयामि, किमेकेन त्रिपुराधिपेन ? त्रिजगदपि संहरामि । तदनन्तरं सरोषो देवदारुर्भयरहितो नानाछत्रध्वजचामरसैन्यसहितः शंकरं नीत्वा तत्र गतः। पुरं वेष्टितवान् । विद्युजिव्हस्तु निर्गतः, चन्द्रशेखरस्तेन सह त्रैलोक्यचित्तचमत्कारकारकं समनीकं चकार । ज्वालिन्या विद्यया ज्वालयित्वा रिपुं भस्मयामास । त्रिपुरं गृहीत्वा देवदारुः सुखी बभूव । जामातरं त्रिपुरं नीत्वा तस्मै चन्द्रशेखराय अष्टा अपि कन्या अदित । तास्त-मैथुनमसहमाना अष्टा अपि मृताः। देवदारुखगस्याष्टचन्द्रैः सुहृद्भिः शत्रुमारकस्य भूतेशस्य मालतीमाला इव कोमलभुजाः पंचशतकन्याः पुनर्दत्ता: । ता अपि खण्डपरशोर्विषमरतेन दिनं दिनं प्रति भुक्ता एकैकाः सर्वा अपि मनुः । तदा तासां मरणे गिरीशश्चिन्ताव्याकुलितमनाः स्थितः । अथ गौर्या सह यथा संयोगो जातस्तत्कथां कथयामि शृणुत भव्याः ! । पूर्वभवे खल्वेका क्षान्तिका देशान्तरं यान्ती मार्गश्रमश्रान्ता धीवरेण नदीमुत्तारिता ।
षट्र० २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org